मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९६, ऋक् ८

संहिता

द्र॒वि॒णो॒दा द्रवि॑णसस्तु॒रस्य॑ द्रविणो॒दाः सन॑रस्य॒ प्र यं॑सत् ।
द्र॒वि॒णो॒दा वी॒रव॑ती॒मिषं॑ नो द्रविणो॒दा रा॑सते दी॒र्घमायु॑ः ॥

पदपाठः

द्र॒वि॒णः॒ऽदाः । द्रवि॑णसः । तु॒रस्य॑ । द्र॒वि॒णः॒ऽदाः । सन॑रस्य । प्र । यं॒स॒त् ।
द्र॒वि॒णः॒ऽदाः । वी॒रऽव॑तीम् । इष॑म् । नः॒ । द्र॒वि॒णः॒ऽदाः । रा॒स॒ते॒ । दी॒र्घम् । आयुः॑ ॥

सायणभाष्यम्

द्रविणोदा द्रविणस्य धनस्य बलस्य वा दाताग्निस्तुरस्य त्वरमाणस्य चलतो जंगमस्य द्रविणसो धनस्य बलस्य वैकदेशं प्रयंसत् । अस्मभ्यं प्रयच्छतु । तथा द्रविणोदाः सनरस्य सननीयस्य संभजनीयस्य स्थावररूपस्य धनस्यैकदेशं प्रयच्छतु । अपि च द्रविणोदा वीरवतीं वीर्यैः पुत्रादिभिर्युक्तमिषमन्नं नोऽस्मभ्यं प्रयच्छतु । तथा द्रविणोदा दीर्घमायुरस्मभ्यं रासते । प्रयच्छतु ॥ तुरस्य तुर त्वरणे । इगुपधलक्षणः कः । सनरस्य । वन षण संभक्तौ । कृदरादयश्च (उ ५-४१) इत्यरन्प्रत्ययः । यंसत् । यम उपरमे । लेट्यडागमः । सिब्बहुलं लेटीति सिप् । रासते । रा दाने । पूर्ववल्लेट सिप् । व्यत्ययेनात्मनेपदं ॥ ८ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः