मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९६, ऋक् ९

संहिता

ए॒वा नो॑ अग्ने स॒मिधा॑ वृधा॒नो रे॒वत्पा॑वक॒ श्रव॑से॒ वि भा॑हि ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥

पदपाठः

ए॒व । नः॒ । अ॒ग्ने॒ । स॒म्ऽइधा॑ । वृ॒धा॒नः । रे॒वत् । पा॒व॒क॒ । श्रव॑से । वि । भा॒हि॒ ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

सायणभाष्यम्

व्याख्यातेयं पूर्वसूक्ते । अक्षरार्थस्तु हे शोधकाग्ने । एवमस्माभिर्दत्तेन समिदादिद्रव्येण वृधानो वर्धमानः सन् नोऽस्माकं धनयुक्तायान्नाय विशेषेण प्रकाशस्व । अस्माकं तदन्नं मित्रादयो ममहंताम् । पूजयंताम् । रक्षंत्वित्यर्थः । तथा सिंधुरब्देवता द्यावापृथिव्यौ च ममहंतां ॥ ९ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः