मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९७, ऋक् ३

संहिता

प्र यद्भन्दि॑ष्ठ एषां॒ प्रास्माका॑सश्च सू॒रयः॑ ।
अप॑ न॒ः शोशु॑चद॒घम् ॥

पदपाठः

प्र । यत् । भन्दि॑ष्ठः । ए॒षा॒म् । प्र । अ॒स्माका॑सः । च॒ । सू॒रयः॑ ।
अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥

सायणभाष्यम्

यद्यथैषां स्तोतृणां मध्येऽयं कुत्सः प्रभंदिष्ठः प्रकर्षेण स्तोतृतमः एवमस्माकास आस्माकीनाः सूरयः स्तोतारश्च प्रकर्षेण स्तोतृतमा भवंति । अन्यत्समानं ॥ भंदिष्ठः । भंदतिः स्तुतिकर्मा । भदि कल्याणे सुखे चेति तु धातुः । अस्मात्तृजंतात्तुश्छंदसीतीष्ठन् । तुरिष्ठेमेयःस्विति तृलोपः । अस्माकासः । अस्माकं संबंधिनोऽस्माकाः । तस्मिन्नणि च युष्माकास्माकौ (पा ४-३-२) इत्यस्माकादेशः । छांदसोऽण्प्रत्ययस्य लोपः । संज्ञा पूर्वकस्य विधेरनित्यत्वाद्वृद्ध्यभावः । आज्जसेरसुक् । स्थानिवदादेशेऽपि मकारात्परस्याकारस्योदात्तत्वम् । यद्वा । षष्ठीबहुवचनेऽस्माकंशब्दस्य मध्योदात्तस्य दृष्टत्वात्स एवाचार्येणातिदिश्यते ॥ ३ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः