मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९७, ऋक् ५

संहिता

प्र यद॒ग्नेः सह॑स्वतो वि॒श्वतो॒ यन्ति॑ भा॒नवः॑ ।
अप॑ न॒ः शोशु॑चद॒घम् ॥

पदपाठः

प्र । यत् । अ॒ग्नेः । सह॑स्वतः । वि॒श्वतः॑ । यन्ति॑ । भा॒नवः॑ ।
अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥

सायणभाष्यम्

सहस्वतः सहनवतः शत्रॊनभिभवतोऽग्नेर्भानवो दीप्तयो विश्वतः सर्वतः सर्वस्मादपि प्रदेशात्प्रयंति । प्रकर्षेणोद्गच्छंति । यद्यस्मादेवं तस्मात्तेनाग्नितेजसास्मदीयमघं नश्यतु ॥ यंति । इणो यण् (पा ६-४-८१) इति यणादेशः ॥ ५ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः