मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९८, ऋक् २

संहिता

पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश ।
वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ॥

पदपाठः

पृ॒ष्टः । दि॒वि । पृ॒ष्टः । अ॒ग्निः । पृ॒थि॒व्याम् । पृ॒ष्टः । विश्वाः॑ । ओष॑धीः । आ । वि॒वे॒श॒ ।
वै॒श्वा॒न॒रः । सह॑सा । पृ॒ष्टः । अ॒ग्निः । सः । नः॒ । दिवा॑ । सः । रि॒षः । पा॒तु॒ । नक्त॑म् ॥

सायणभाष्यम्

चातुर्मास्यान्वारंभणीया वैश्वानरपार्जन्या । तस्यां वैश्वानरस्य हविषः पृष्टो दिवीति याज्या । चातुर्मास्यानीति खंडे सूत्रितम् । पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पर्जन्याय प्र गायत ॥ आ २-१५ । इति ॥

अयं वैश्वानरोऽग्निर्दिवि द्युलोक आदित्यात्मना पृष्टः संस्पृष्टः यद्वा निषिक्तो निहितो वर्तते । तथा पृथिव्यां भूमौ गार्हपत्यादिरूपेण पृष्टः संस्पृष्टो निहितो वा । तथा विश्वाः सर्वा ओषधीः पृष्वः संस्पृष्टः सोऽग्निराविवेश । पाकार्थमंतप्रविष्टवान् । अंतःप्रविष्टेन पार्थिवेनाग्निना हि सर्वा ओषधयः पच्यंते । सहसा परेषामसाधारणेन बलेन पृष्टः संस्पृष्टो पैश्वानरो नोऽस्मान्दिवाह्नि रिषो हिंसतः शर्तोः पातु । रक्षतु । तथा स वैश्वानरो नक्तं रात्रावप्यस्मान्हिंसकात्पातु ॥ पृष्टः । स्पृश संस्पर्शने । छांदसः सकारलोपः । यद्व पृषु सेचने । निष्ठायां यस्य विभाषेतीट्प्रतिषेधः । दिवि । ऊडिदमिति विभक्तेरुदात्तत्वम् । पृथिव्याम् । उदात्तयण इति विभक्तिरुदात्ता । रिषः । रिष हिंसायाम् । क्विप्चेति क्विप् । सावेकाच इति पंचम्या उदात्तत्वं ॥ २ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः