मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९८, ऋक् ३

संहिता

वैश्वा॑नर॒ तव॒ तत्स॒त्यम॑स्त्व॒स्मान्रायो॑ म॒घवा॑नः सचन्ताम् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥

पदपाठः

वैश्वा॑नर । तव॑ । तत् । स॒त्यम् । अ॒स्तु॒ । अ॒स्मान् । रायः॑ । म॒घऽवा॑नः । स॒च॒न्ता॒म् ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

सायणभाष्यम्

हे वैश्वानर तव तत्त्वदीयं तदस्माभिः क्रियमाणं कर्म सत्यमस्तु । आवितथफलं भवतु । ततोऽस्मान्मघवानो मघवंतो धनवंतो रायो धनवदतिप्रियाः पुत्राः सचंताम् । सेवंताम् । एवं यदस्माभिः प्रार्थितं नोऽस्मदीयं तत् मित्रोऽ हरभिमानी देवो वरुणो रात्र्यभिमानी । अदितिरदीना देवमाता सिंधुः स्यंदन शीलोदकाभिमानी देवः । उतशब्दः समुच्चये । एते सर्वे मित्रादयो ममहंताम् । पूजयंताम् । पालयंतामित्यर्थः ॥ ३ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः