मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १००, ऋक् १

संहिता

स यो वृषा॒ वृष्ण्ये॑भि॒ः समो॑का म॒हो दि॒वः पृ॑थि॒व्याश्च॑ स॒म्राट् ।
स॒ती॒नस॑त्वा॒ हव्यो॒ भरे॑षु म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

पदपाठः

सः । यः । वृषा॑ । वृष्ण्ये॑भिः । सम्ऽओ॑काः । म॒हः । दि॒वः । पृ॒थि॒व्याः । च॒ । स॒म्ऽराट् ।
स॒ती॒नऽस॑त्वा । हव्यः॑ । भरे॑षु । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

सायणभाष्यम्

स यो वृषेत्येकोनविंशत्यृचं सप्तमं सूक्तम् । अत्रानुक्रम्यते । स यो वृषैकोना वार्षागिरा ऋज्राश्वांबरीषसहदेवभयमानसुराधस इति । वृषागिरो महाराजस्य पुत्रभूता ऋज्राश्वादयः पंच राजर्षयः सहेदं सूक्तं ददृशुः । अतस्तेऽस्य सूक्तस्य ऋषयः । उक्तं ह्यार्षानुक्रमण्याम् । सूक्तं स यो वृषेत्येतत्पंच वार्षागिरा विदुः । नियुक्ता नामधेयैः स्वैरपि चैतत्त्यदित्यृचीति । अनादेशपरिभाषया त्रिष्टुप् । इंद्रो देवता ॥ दशरात्रस्य षष्ठेऽहनि मरुत्वतीय इदं सूक्तम् । तथा च सूत्रितम् । यं त्वं रथमिंद्र स यो वृषेंद्र मरुत्व इति तिस्र इति मरुत्वतीयम् (आ ८-१) इति ॥

य इंद्रो वृषा कामानां वर्षिता वृष्ण्येभिर्वृष्णि भवैर्वीर्यैः समोकाः सम्यक् समवेतः संगतो महो महतो दिवो द्युलोकस्य पृथिव्याः प्रथिताया भूमेश्च सम्राडीश्वरः सतीनसत्वा । सतीनमित्युदकनाम । उदकस्य सत्वा सादयिता गमयिता । भरेषु संग्रामेषु हव्यः सर्वैः स्तोतृभिराह्वातव्यः एवंभूतो मरुत्वान्मरुद्भिर्युक्तः स इंद्रो नोऽस्माकमूती ऊतये रक्षणाय भवतु ॥ वृष्ण्येभिः । वृषञ्शब्दाद्भवे छंदसीति यत् । अल्लोपोऽन इत्यकारलोपः । ये चाभावकर्मणोरिति प्रकृतिभावस्तु व्यत्ययेन न भवति । महः । मह पूजायां क्विप् । यद्वा । महच्छब्देऽच्छब्दलोपः । सावेकाच इति विभक्तेरुदात्तत्वम् । सम्राट् । णो राजि समः क्वौ (पा ८-३-२५) इति राजतौ क्विबंत उत्तरपदे समो मकारस्य मकारादेशः । मकारस्य च मकारवचनमनुस्वारबाधनार्थं सतीनसत्वा । षद्लृविशरणगत्यवसादनेषु । मेघेषु निषीदतीति सतीनं वृष्व्युदकम् । औणादिक ईनप्रत्ययस्तकारांतादेशश्च । यद्वा । सती माध्यमिका वाक् । सा इना ईश्वरा यस्य तत्सतीनम् । व्यत्ययेन पुंवद्भावाभावः । तत्सत्वा । सदेरंतर्भावितण्यर्थात्प्र ईरसद्योस्तुट्च (उ ४-११६) इत्यौणादिको वनिप् तुडागमश्च । मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वम् । मरुत्वान् । झय इति मतुपो वत्वम् । ऊती । ऊतियूतीत्यादिना क्तिन उदात्तत्वम् । सुपां सुलुगिति चतुर्थ्याः पूर्वसवर्णदीर्घः ॥ १ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः