मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १००, ऋक् ७

संहिता

तमू॒तयो॑ रणय॒ञ्छूर॑सातौ॒ तं क्षेम॑स्य क्षि॒तयः॑ कृण्वत॒ त्राम् ।
स विश्व॑स्य क॒रुण॑स्येश॒ एको॑ म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

पदपाठः

तम् । ऊ॒तयः॑ । र॒ण॒य॒त् । शूर॑ऽसातौ । तम् । क्षेम॑स्य । क्षि॒तयः॑ । कृ॒ण्व॒त॒ । त्राम् ।
सः । विश्व॑स्य । क॒रुण॑स्य । ई॒शे॒ । एकः॑ । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

सायणभाष्यम्

तमिंद्रं शूरसातौ शूरैर्वीरपुरुषैः संभजनीये संग्राम ऊतयो गंतारो मरुतो रणयन् । रमयंति । यद्वा प्रहर भगवो जहि वीरयस्वेत्येवंरूपं शब्दमिंद्रमुद्दिश्य कुर्वंति । अपि च क्षितयो मनुष्यास्तमिंद्रं क्षेमस्य रक्षणीयस्य सर्वस्य धनस्य त्रां त्रातारं रक्षितारं कृण्वत । कुर्वंति । देवतांतरादस्य कोऽतिशय इति चेत् । उच्यते । स इंद्रो विश्वस्य सर्वस्य करुणस्याभिमतफलनिष्पादनरूपस्य कर्मण एकोऽसहाय एवेशे । ईष्टे । अन्यत्पूर्ववत् ॥ ऊतयः । अवतेर्गत्यर्थात् कृत्यल्युटो बहुलमिति कर्तरि क्तिन् । तितुत्रेतीट् प्रतिषेधः । ज्वरत्वरेत्यादिना वकारस्योपधायाश्च ऊट् । ऊतियूतीत्यादिना क्तिन उदात्तत्वम् । यद्वा । कर्तरि क्तिच् । रणयन् । रमतेर्हेतुमण्णिजंताद्वर्तमाने छांदसो लङ् । अंत्यविकारश्छांदसः । यद्वा । रण शब्दार्थः । अस्माण्णिजंतात्पूर्ववल्लङ् । त्राम् । त्रैङ् पालने । त्रायत इति त्राः । क्विप् प्चेति चशब्देन दृशिग्रहणानुकर्षणान्निरुपपदादपि क्विप् । करुणस्य । डुकृञ् करणे । कृवृ तृदारिभ्य उनन् (उ ३-५३) इति भावे उनन् । व्यत्ययेन प्रत्ययाद्युदात्तत्वम् । ईशे । ईश ऐश्वर्ये । लोपस्त आत्मनेपदेष्टिति तलोपः ॥ ७ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः