मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १००, ऋक् ८

संहिता

तम॑प्सन्त॒ शव॑स उत्स॒वेषु॒ नरो॒ नर॒मव॑से॒ तं धना॑य ।
सो अ॒न्धे चि॒त्तम॑सि॒ ज्योति॑र्विदन्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

पदपाठः

तम् । अ॒प्स॒न्त॒ । शव॑सः । उ॒त्ऽस॒वेषु॑ । नरः॑ । नर॑म् । अव॑से । तम् । धना॑य ।
सः । अ॒न्धे । चि॒त् । तम॑सि । ज्योतिः॑ । वि॒द॒त् । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

सायणभाष्यम्

नरो नेतारः स्तोतारः शवसो बलस्य संबंधिषूत्सवेषु संग्रामेषु नरं जयस्य नेतारं तमिंद्रमप्संत । आप्नुवंति । किमर्थम् । अवसेऽन्नार्थं रक्षणार्थं वा । तथा धनाय धनार्थं च तमिंद्रं प्राप्नुवंति । यस्मात्स इंद्रस्तमसि दृष्टिप्रतिबंधकेऽंधे चित् आध्यानरहिते चित्तव्यामोहकरेऽपि संग्रामे ज्योतिर्विजयलक्षणं प्रकाशं विदत् । लंभयति । तस्मात्तमेव प्राप्नुवंतीत्यर्थः अन्यत्समानं ॥ अप्संत । आप्लृव्याप्तौ । लङिव्यत्ययेनात्मनेपदम् । व्यत्ययेन क्सप्रत्ययः । व्यत्ययेन धातोर्ह्रस्वत्वम् । विवत् । विद्लृ लाभे । छंदसि लुङ् लङ् लिट इति वर्तमाने छांदसो लुङ् । लृदित्त्वाच्च्लेरङादेशः । बहुलं छंदस्यमाङ्योगेऽप्रीत्यडभावः ॥ ८ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः