मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १००, ऋक् ११

संहिता

स जा॒मिभि॒र्यत्स॒मजा॑ति मी॒ळ्हेऽजा॑मिभिर्वा पुरुहू॒त एवै॑ः ।
अ॒पां तो॒कस्य॒ तन॑यस्य जे॒षे म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

पदपाठः

सः । जा॒मिऽभिः॑ । यत् । स॒म्ऽअजा॑ति । मी॒ळ्हे । अजा॑मिऽभिः । वा॒ । पु॒रु॒ऽहू॒तः । एवैः॑ ।
अ॒पाम् । तो॒कस्य॑ । तन॑यस्य । जे॒षे । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

सायणभाष्यम्

पुरुहूतो बहुभिर्यजमानैराहूतः स इंद्रो मीळ्हे संग्रामे । मीळ्हमिति धननाम । तद्धेतुत्वात्संग्रामोऽपि मीळ्हशब्देनोच्यते । जामिभिर्बंधुभिरजामिभिर्वा बांधवरहितैर्वैवैर्युद्धार्थं मरुद्भिः सह यद्यदा समजाति संगच्छते । तेषामुभयविधानामपामिंद्रं प्राप्नुवतां पुरुषाणां तोकस्य पुत्रस्य तनयस्य तत्पुत्रस्य च जेषे जयप्राप्तये स इंद्रो भवति । किमु वक्तव्यमस्माकं स्तोतृतमानां जयो भवतीति । अन्यत्समानं ॥ समजाति । अज गतिक्षेपणयोः । लेट्याडागमः । जेषे । जि जये । औणादिकः सप्रत्ययः । चतुर्थ्यर्थे सप्तमी । यद्वा । जेषृ णेषृ प्रेषृ गतौ । क्विप्चेति क्विप् । सावेकाच इति विभक्तेरुदात्तत्वं ॥ ११ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०