मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १००, ऋक् १२

संहिता

स व॑ज्र॒भृद्द॑स्यु॒हा भी॒म उ॒ग्रः स॒हस्र॑चेताः श॒तनी॑थ॒ ऋभ्वा॑ ।
च॒म्री॒षो न शव॑सा॒ पाञ्च॑जन्यो म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

पदपाठः

सः । व॒ज्र॒ऽभृत् । द॒स्यु॒ऽहा । भी॒मः । उ॒ग्रः । स॒हस्र॑ऽचेताः । श॒तऽनी॑थः । ऋभ्वा॑ ।
च॒म्री॒षः । न । शव॑सा । पाञ्च॑ऽजन्यः । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

सायणभाष्यम्

स इंद्रो वज्रभृत् अन्यैर्भर्तुमशक्यस्य वज्रस्य भर्ता । दस्युहा दस्यूनामुपक्षपयितृणामसुराणां हंता । भीमः सर्वेषां भयहेतुः उग्र उद्गूर्णतेजाः सहस्रचेता जहुविधज्ञानः । सर्वज्ञ इत्यर्थः । शतनीथो बहुस्तुतिर्बहुविधप्रापणो वा ऋभ्वा उरु भासमानो महान्वा । चम्रीषो न चम्वा चमसे रसात्मनावस्थितः सोम इव शवसा बलेन पांचजन्यः । गंधर्वा आप्सरसो देवा असुरा रक्षांसि पंच जनाः । निषादपंचमाश्चत्वारो वर्णा वा । तेषु रक्षकत्वेन भवः । एवंभूतं स मरुत्वानिंद्रो नोऽस्माकं रक्षणाय भवतु ॥ दस्युहा । बहुलं छंदसीति हंतेः क्विप् । भीमः । ञिभी भये । भीमादयोऽपादाने (पा ३-४-७४) इत्यपादाने भियः षुग्वा (उ १-१४७) इति मक् । शतनीथः । णीञ् प्रापणे । हनिकुषिनीरमिकाशिभ्यः क्थन् (उ २-२) इति क्थन्प्रत्ययः । चम्रीषः । इष गतौ । चम्वामिष्यति गच्छतीति चम्रीषः । इगुपधलक्षणः कप्रत्ययः । वर्णव्यापत्त्यारेपो दीर्घश्च । यद्वा चमेरौणादिकः ईषन्प्रत्ययः । पूर्ववद्रेफः । पांचजन्यः । भवार्थे बहिर्देवपंचजनेभ्यश्चेति वक्तव्यम् । का ४-३-५८-१ । इति ञ्यप्रत्ययः । ञित्त्वादाद्युदात्तत्वं ॥ १२ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०