मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १००, ऋक् १४

संहिता

यस्याज॑स्रं॒ शव॑सा॒ मान॑मु॒क्थं प॑रिभु॒जद्रोद॑सी वि॒श्वतः॑ सीम् ।
स पा॑रिष॒त्क्रतु॑भिर्मन्दसा॒नो म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

पदपाठः

यस्य॑ । अज॑स्रम् । शव॑सा । मान॑म् । उ॒क्थम् । प॒रि॒ऽभु॒जत् । रोद॑सी॒ इति॑ । वि॒श्वतः॑ । सी॒म् ।
सः । पा॒रि॒ष॒त् । क्रतु॑ऽभिः । म॒न्द॒सा॒नः । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

सायणभाष्यम्

यस्येंद्रस्योक्थं प्रशस्यं शवसा मानं बलेन सर्वस्य परिच्छेदकं सर्वेषां बलस्योपमानभूतं वा रोधसी द्यावापृथिव्यौ विश्वतः सीं सर्वतोऽजस्रमनवरतं परिभुजत् परितः सर्वतो भुनक्ति पालयति स इंद्रः क्रतुभिरस्माभिः कृतैर्यागैर्मंदसानोमोदमानः सन्पारिषत् । अस्मान्दुरितात्पारयतु ॥ उक्थम् । वच परिभाषणे । पातृतु दिवचीत्यादिना कर्मणि थक् । वचिस्वपीत्यादिना संप्रसारणम् । परिभुजत् । भुज पालनाभ्यवहारयोः । लेट्यडागमः । व्यत्ययेन शः । पारिषत् । पार तीर कर्मसमाप्तौ । लेट्यडागमः । सिब्बहुलं लेटीति सिप् । तस्यार्धधातुकत्वादिट् । व्यत्ययेन णिलोपः । मंदसानः । मदि स्तुतिमोदमदस्वप्नकांतिगतिषु । ऋंजिवृधिमंदिसहिभ्यः कित् (उ २-८७) इत्यसानच् प्रत्ययः ॥ १४ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०