मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १००, ऋक् १५

संहिता

न यस्य॑ दे॒वा दे॒वता॒ न मर्ता॒ आप॑श्च॒न शव॑सो॒ अन्त॑मा॒पुः ।
स प्र॒रिक्वा॒ त्वक्ष॑सा॒ क्ष्मो दि॒वश्च॑ म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

पदपाठः

न । यस्य॑ । दे॒वाः । दे॒वता॑ । न । मर्ताः॑ । आपः॑ । च॒न । शव॑सः । अन्त॑म् । आ॒पुः ।
सः । प्र॒ऽरिक्वा॑ । त्वक्ष॑सा । क्ष्मः । दि॒वः । च॒ । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

सायणभाष्यम्

देवता देवस्य दानादिगुणयुक्तस्य यस्येंद्रस्य शवसो बलस्यांतमवसानं देवा वस्वाद्या देवगणा नापुः नानाशिरे तथा मर्ता मनुष्या आपश्चनापोऽपि न प्रापुः स तादृश इंद्रस्त्वक्षसा शत्रूणां तनूकर्तात्मीयेन बलेन क्ष्मः पृथिव्या दिवश्च स्वर्गस्य च प्ररिक्वा प्रकर्षेण रेचको भवति । लोकद्वयादप्यस्य बलमतिरिच्यत इत्यर्थः । मरुद्भिर्युक्तः स इंद्रो नोऽस्माकमूती ऊतये रक्षणाय भवतु ॥ देवता । देव एव देवता । देवात्तलिति स्वार्थे तल् । सुपां सुलुगिति षष्ठ्यालुक् । मर्ताः । मृङ् प्राणत्यागे । असिहसीत्यादिना तन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । प्ररिक्वा । रिचिर् विरेचने । अन्येभ्योऽपि दृश्यंत इति क्वनिप् । अंत्यविकारश्छांदसः । त्वक्षसा । तक्षू त्वक्षू तनूकरणे । असुन् । नित्त्वादाद्युदात्तत्वम् । क्ष्मः । क्ष्मेति पृथिवीनाम । अतो धातोरित्यत्रात इति योगविभागादिष्टसिद्धिरित्यभिधानात् ङसि भसंज्ञायामाकारलोपः । यद्वा । क्ष्मायी विधूनने । अस्मात्क्विप्चेति क्विप् । वेरपृक्तलोपात्पूर्वं वलि लोपः । अन्यत्समानम् । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वं ॥ १५ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०