मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १००, ऋक् १६

संहिता

रो॒हिच्छ्या॒वा सु॒मदं॑शुर्लला॒मीर्द्यु॒क्षा रा॒य ऋ॒ज्राश्व॑स्य ।
वृष॑ण्वन्तं॒ बिभ्र॑ती धू॒र्षु रथं॑ म॒न्द्रा चि॑केत॒ नाहु॑षीषु वि॒क्षु ॥

पदपाठः

रो॒हित् । श्या॒वा । सु॒मत्ऽअं॑शुः । ल॒ला॒मीः । द्यु॒क्षा । रा॒ये । ऋ॒ज्रऽअ॑श्वस्य ।
वृष॑ण्ऽवन्तम् । बिभ्र॑ती । धूः॒ऽसु । रथ॑म् । म॒न्द्रा । चि॒के॒त॒ । नाहु॑षीषु । वि॒क्षु ॥

सायणभाष्यम्

रोहित् रोहितवर्णा श्यावा श्यामवर्णा । उभयोः पार्श्वयोरुभयविधवर्णयुक्तेत्यर्थः । सुमदंशुः । सुमत् स्वतः प्रांशुः । उक्तं च यास्केन । सुमत् स्वयमित्यर्थः (नि ६-२२) इति । अतिदीर्घावयवा ललामीः पुंड्रवती अश्वभूषणयुक्ता वा । द्युक्षा दिवि द्युलोके कृतनिवासा ऋज्राश्वस्यैतत्संज्ञस्य राजर्षे राये धनार्थं वृषण्वंतं वृण्णा सेक्त्रेंद्रेण युक्तं रथं धूर्षु युगसंबंधिषु वहनप्रदेशेषु बिभ्रती वहंती मंद्रा सर्वेषामाह्लादकर्यश्वपंक्तिर्नाहुषीषु । नहुषा मनुष्याः । तत्संबंधिनीषु विक्षु सेनालक्षणासु प्रजासु चिकेत । ज्ञायते । ईदृश्याश्वपंक्त्या युक्त इंद्रः संग्रामेष्वनुग्राहकतया प्रादुर्भवतीत्यर्थः ॥ ललामीः ललामशब्दाच्छंदसीवनिपौ । पा ५-२-१०९-२ । इति मत्वर्थीय इकारः । अङ्यंतत्वश्सुलोपाभावः । ध्युक्षा । क्षि निवासगत्योः औणादिको डप्रत्ययः । ततष्टाप् । ऋज्राश्वस्य । ऋज गतिस्थानार्जनोपार्जनेषु ऋजेंद्रेत्यादिना रक्प्रत्ययांतो निपातितः । ऋज्रा गतिमंतोऽश्वा यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं वृषण्वंतम् । अनो नुट् (पा ८-२-१६) इति मतुपो नुट् । चिकेत् । कित ज्ञाने । छंदसि लुङ् लिङ् लिट इति वर्तमाने कर्माणि लिट् । व्यत्ययेन तिप् ॥ १६ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११