मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १००, ऋक् १८

संहिता

दस्यू॒ञ्छिम्यूँ॑श्च पुरुहू॒त एवै॑र्ह॒त्वा पृ॑थि॒व्यां शर्वा॒ नि ब॑र्हीत् ।
सन॒त्क्षेत्रं॒ सखि॑भिः श्वि॒त्न्येभि॒ः सन॒त्सूर्यं॒ सन॑द॒पः सु॒वज्र॑ः ॥

पदपाठः

दस्यू॑न् । शिम्यू॑न् । च॒ । पु॒रु॒ऽहू॒तः । एवैः॑ । ह॒त्वा । पृ॒थि॒व्याम् । शर्वा॑ । नि । ब॒र्ही॒त् ।
सन॑त् । क्षेत्र॑म् । सखि॑ऽभिः । श्वि॒त्न्येभिः॑ । सन॑त् । सूर्य॑म् । सन॑त् । अ॒पः । सु॒ऽवज्रः॑ ॥

सायणभाष्यम्

पुरुहूतो बहुभिर्यजमानैराहूत इंद्र एवैर्गमनशीलैर्मरुद्भिर्युक्तः सन् पृथिव्यां भूमौ वर्तमानान्दस्यूनुपक्षपयितृ ञ्भत्रून् शिम्यूंश्च शमयितृन्वधकारिणो राक्षसांदीश्च हत्वा प्रहृत्य तदनंतरं शर्वा हिंसकेन वज्रेण नि बर्हीत् । अवधीत् । निबर्हयति वधकर्मा । एवं शत्रून्निरस्य श्वित्न्येभिः श्वेतवर्णैरलंकारेण दीप्तांगैः सखिभिर्मित्रभूतैर्मरुद्भिः सह क्षेत्रं शत्रूणां स्वभूतां भूमिं सनत् । समभाक्षीत् । तथा वृत्रेण तिरोहितं सूर्यं तस्य वृत्रस्य हननेन सनत् । अभजत । प्राप्तवानित्यर्थः । तथा सुवज्रः शोभनवज्रयुक्त इंद्रो वृत्रेण निरुद्धा अपो वृष्ट्युदकानि सनत् । समभजत ॥ दस्यून् । दसु उपक्षये । यजिमनिशुंधिदसिजनिभ्यो युः । वृषादित्वादाद्युदात्तत्वम् । शिम्यून् । शमु उपशमे । शमयति सर्वं तिरस्करोतीति राक्षसादिः शिम्युः । औणादिको युन्प्रत्ययः । वर्णव्यापत्त्याकारस्येत्वम् । शर्वा । शृ हिंसायाम् । अन्येभ्योऽपि दृश्यंत इति वनिप् । सुपां सुलुगिति तृतीयाया डादेशः । सनत् । वन षण संभक्तौ । लङिबहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । श्वित्न्येभिः । श्विता वर्णे । औणादिको नक्प्रत्ययः । श्वित्नं शुक्लवर्णमर्हंतीति श्वित्न्याः । छंदसि चेति यः । सुवज्रः । आद्युदात्तं द्वृच्छंदसीत्युत्तरपदाद्युदात्तत्वं ॥ १८ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११