मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०१, ऋक् २

संहिता

यो व्यं॑सं जाहृषा॒णेन॑ म॒न्युना॒ यः शम्ब॑रं॒ यो अह॒न्पिप्रु॑मव्र॒तम् ।
इन्द्रो॒ यः शुष्ण॑म॒शुषं॒ न्यावृ॑णङ्म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥

पदपाठः

यः । विऽअं॑सम् । ज॒हृ॒षा॒णेन॑ । म॒न्युना॑ । यः । शम्ब॑रम् । यः । अह॑न् । पिप्रु॑म् । अ॒व्र॒तम् ।
इन्द्रः॑ । यः । शुष्ण॑म् । अ॒शुष॑म् । नि । अवृ॑णक् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

य इंद्रो जहृषाणेन प्रवृद्थेन मन्युना क्रोधेन व्यंसं विगतभुजं वृत्रमहन् । अवधीत् । अपि च य इंद्रः शंबरमेतत्संज्ञमसुरं चावधीत् । तथाव्रतं व्रतस्य यागादेः कर्मणो विरोधिनं पिप्रुमेतत्संज्ञमसुरं च य इंद्रोऽवधीत् । किंच य इंद्रोऽशुषं शोषकरहितं शुष्णं सर्वस्य जगतः शोषकमेतत्संज्ञमसुरं न्यवृणक् । न्यवर्जयत् । समूलं हतवानित्यर्थः । तं मरुत्वॆंतमिंद्रं सख्यायाह्वायामहे ॥ व्यंसम् । विगतोऽंसो यस्मात् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यण उदात्तस्वरितयोर्यण इति परस्यानुदात्तस्य स्वरिहत्वम् । जहृषाणेन । हृष तुष्टौ । अत्र वृद्ध्यर्थः । छंदसि लिट् । लिटः कानज्वेति तस्य कानजादेशः । अन्येषामसि दृश्यत इति संहितायामभ्यासस्य दीर्घत्वम् । चित्त्वादंतोदात्तत्वम् । अशुषम् । शुष शोषणे । इगुपधलक्षणः कः । शुषाः शोषका न संत्यस्येत्यशुषः । परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । अवृणक् । वृजी वर्जने । रौधादिरः ॥ २ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२