मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०१, ऋक् ४

संहिता

यो अश्वा॑नां॒ यो गवां॒ गोप॑तिर्व॒शी य आ॑रि॒तः कर्म॑णिकर्मणि स्थि॒रः ।
वी॒ळोश्चि॒दिन्द्रो॒ यो असु॑न्वतो व॒धो म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥

पदपाठः

यः । अश्वा॑नाम् । यः । गवा॑म् । गोऽप॑तिः । व॒शी । यः । आ॒रि॒तः । कर्म॑णिऽकर्मणि । स्थि॒रः ।
वी॒ळोः । चि॒त् । इन्द्रः॑ । यः । असु॑न्वतः । व॒धः । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

य इंद्रोऽश्वानां पतिरधिपतिः । तथा य इंद्रो गोपतिः । न केवलमेकस्या गोः किंतु सर्वासामित्याह गवामिति । सर्वासां गवामधिपतिर्भवति । वशी अपराधीनः । स्वतंत्र इत्यर्थः । आपि च य इंद्रः कर्मणि कर्मणि सर्वेषु कर्मसु स्थिरो नैश्चल्येनावतिष्ठमान आरितः स्तुतिभिः प्रत्यृतः प्राप्तो भवति । आरितः प्रत्यृतः स्तोमानिति निरुक्तम् (नि ५-१५) यश्चेंद्रोऽसुन्वतः सुन्वतां यागानुष्ठातॄणां विरोधिनो वीळोश्चित् विळोश्चित् डृढस्यापि शत्रोर्वधो हंता तं मरुत्वंतमिंद्रं सख्यायाह्वयामहे ॥ गवाम् । न गोश्वन्साववर्णेति विभक्तेरुदात्तत्वस्य प्रतिषेधः गोपतिः । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरत्वम् । आरितः । ऋ गतौ । अस्माण्ण्यंतान्निष्ठा । आगमानुशासनस्यानित्यत्वात्पुगागमाभावः । यद्वा । सूचिसूत्रिमूत्र्यट्यर्त्यशूर्णोतीनाम् । पा ३-१-२२-३ । इति विहितस्य यङो यङोऽचि चेत्यत्र चशब्देन बहुलग्रहणानुकर्षणादनैमित्तिके लुकि प्रत्ययलक्षणेन सन्यङोरिति ऋ इत्येतस्य द्विर्वचन उरदत्वहलादिशेषयोः सतो रुग्रिकौ च लुकीति रुक् । ततो निष्ठायां छांदस इडागमः । ऋकारस्य यणादेशः रो रीत्यभ्यासरेफलोपः । ढ्रलोपे पूर्वस्य दीर्घोऽण इति दीर्घत्वम् । वधः । कृत्यलुटो बहुलमिति बहुलवचनात् हनश्च वध इति कर्तर्यप् वधादेशश्च । स चादंतः । अतो लोप उदात्तनिवृत्तिस्वरेण प्रत्ययस्योदात्तत्वं ॥ ४ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२