मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०१, ऋक् ६

संहिता

यः शूरे॑भि॒र्हव्यो॒ यश्च॑ भी॒रुभि॒र्यो धाव॑द्भिर्हू॒यते॒ यश्च॑ जि॒ग्युभि॑ः ।
इन्द्रं॒ यं विश्वा॒ भुव॑ना॒भि सं॑द॒धुर्म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥

पदपाठः

यः । शूरे॑भिः । हव्यः॑ । यः । च॒ । भी॒रुऽभिः॑ । यः । धाव॑त्ऽभिः । हू॒यते॑ । यः । च॒ । जि॒ग्युभिः॑ ।
इन्द्र॑म् । यम् । विश्वा॑ । भुव॑ना । अ॒भि । स॒म्ऽद॒धुः । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

य इंद्रः शूरेभिः शौर्योपेतैः पुरुषैर्हव्यो योद्धुमाह्वातव्यः । यश्च भीरुभिर्भयशीलैः कातरैः पुरुषैः सहायार्थमाह्वातव्यः । अपि च य इंद्रो धावद्भिः पराजयेन पलायमानैर्हूयते रक्षार्थमाहूयते । यश्च जिग्युभिः प्राप्तजयैराहूयते । यं चेंद्रं विश्वा भुवना सर्वाणि भूतजातानि स्वेषु स्वेषु कार्येष्वभि संदधुः । आभिमुख्येन स्थापयंति । तं मरुत्वंतमिंद्रं सख्यायाह्वयामहे ॥ शूरेभिः । बहुलं छंदसीति भिस ऐसभावः । हव्यः । ह्वयतेरचो यदिति यत् । ह्व इत्यनुवृत्तौ बहुलं छंदसीति संप्रसारणम् । गुणे धातोस्तन्नि मित्तस्यृवेत्यवादेशः । भीरुभिः । भियः क्रुक्रुकनौ (उ २-३१) इति क्रुप्रत्ययः । धावद्भिः । सृ गतौ । सर्तेर्वेगितायां शपि पाघ्रेत्यादिना धावादेशः । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । जिग्युभिः । जि जये । लिटः क्वसुः । द्विर्वचने सन्लिटोर्जेरित्यभ्यासादुत्तरस्य जकारस्य कुत्वम् । भिस्ययस्मयादित्वेन भत्वाद्वसोः संप्रसारणमिति संप्रसारणम् । छांदसोऽंत्यलोपः ॥ ६ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२