मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०१, ऋक् ७

संहिता

रु॒द्राणा॑मेति प्र॒दिशा॑ विचक्ष॒णो रु॒द्रेभि॒र्योषा॑ तनुते पृ॒थु ज्रयः॑ ।
इन्द्रं॑ मनी॒षा अ॒भ्य॑र्चति श्रु॒तं म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥

पदपाठः

रु॒द्राणा॑म् । ए॒ति॒ । प्र॒ऽदिशा॑ । वि॒ऽच॒क्ष॒णः । रु॒द्रेभिः॑ । योषा॑ । त॒नु॒ते॒ । पृ॒थु । ज्रयः॑ ।
इन्द्र॑म् । म॒नी॒षा । अ॒भि । अ॒र्च॒ति॒ । श्रु॒तम् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

विचक्षणः सूर्यात्मना प्रकाशमान इंद्रो रुद्राणां रुद्रपुत्रामध्यात्मं प्राणरूपेण वर्तमानानां मरुताम् । यद्वा । रोदयितृणां प्राणानाम् । प्राणा हि शरीरान्निर्गताः संतो बंधुजनान्रोदयंति । प्रदिशा प्रदेशनेन मनुष्येभ्यः प्रदानेन सहैति । अंतरिक्षे गच्छति । तथा चाम्नायते । योऽसौ तपन्नुदेति । स सर्वेषां भूतानां प्राणानादायोदेति । तै आ १-१४-१ । इति । अपि च रुद्रेभिरधिभूतं वर्तमानै रुद्रपुत्रैर्मरुद्भिर्योषा माध्यमिका वाक् पृथु विस्तीर्णं ज्रयो वेगं तनुते । विस्तारयति । प्रसंगादत्र मरुतां स्तुतिः । तैर्मरुद्भिः सह वर्तमानं श्रुतं प्रख्यातं सूर्यात्मानमिंद्रं मनीषा स्तुतिलक्षणा वाक् अभ्यर्चति । अभिमुख्येन स्तौति । तं मरुत्वंतमिंद्रं सख्यायाह्वयामहे ॥ प्रदिशा । दिश अतिसर्जने । संपदादिलक्षणो भावे क्विप् । ज्रयः । जि ज्रि अभिभवे । ज्रीयतेऽभिभूयतेऽनेनेति ज्रयो वेगः । करणेऽसुन् । मनीषा । ईषाअक्षादित्वात्प्रकृतिभावः ॥ ७ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३