मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०१, ऋक् ९

संहिता

त्वा॒येन्द्र॒ सोमं॑ सुषुमा सुदक्ष त्वा॒या ह॒विश्च॑कृमा ब्रह्मवाहः ।
अधा॑ नियुत्व॒ः सग॑णो म॒रुद्भि॑र॒स्मिन्य॒ज्ञे ब॒र्हिषि॑ मादयस्व ॥

पदपाठः

त्वा॒ऽया । इ॒न्द्र॒ । सोम॑म् । सु॒सु॒म॒ । सु॒ऽद॒क्ष॒ । त्वा॒ऽया । ह॒विः । च॒कृ॒म॒ । ब्र॒ह्म॒ऽवा॒हः॒ ।
अध॑ । नि॒यु॒त्वः॒ । सऽग॑णः । म॒रुत्ऽभिः॑ । अ॒स्मिन् । य॒ज्ञे । ब॒र्हिषि॑ । मा॒द॒य॒स्व॒ ॥

सायणभाष्यम्

हे सुदक्ष शोभनबलेंद्र त्वाया त्वत्कामनया सोमं सुषुम । आभिषुतवंतो वयम् । हे ब्रह्मवाहो ब्रह्मणा मंत्ररूपेण स्तोत्रेणोह्यमान प्राप्यमाणेंद्र त्वाया त्वत्कामनयाहवनीये पुरोडाशलक्षणं हविश्चकृम । कृतवंतः हे नियुत्वः । नियुतोऽश्वाः । तद्विन्निंद्र अधानंतरं मरुद्भिः सप्तगणरूपैरेतत्संज्ञैर्देवैः सगणो गणसहितः सन्नस्मिन्वर्तमाने यज्ञे बर्हिष्यास्तीर्णे दर्भ उपविश्य मादयस्व । तृप्तो भव ॥ सुषुमा । षुञ् अभिषवे । लिट क्रादिनियमप्राप्तस्येटोऽनित्यमागममशासनमिति वचनादभावः ॥ ९ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३