मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०१, ऋक् ११

संहिता

म॒रुत्स्तो॑त्रस्य वृ॒जन॑स्य गो॒पा व॒यमिन्द्रे॑ण सनुयाम॒ वाज॑म् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥

पदपाठः

म॒रुत्ऽस्तो॑त्रस्य । वृ॒जन॑स्य । गो॒पाः । व॒यम् । इन्द्रे॑ण । स॒नु॒या॒म॒ । वाज॑म् ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

सायणभाष्यम्

मरुत्त्सोत्रस्य । मरुद्भिः सह स्तोत्रं यस्य स मरुत्स्तोत्रः । तस्य वृजनस्य शत्रूणां क्षेप्तुरिंद्रस्य संबंधिनो गोपा गोपायनीया रक्षणीया वयं तेनेंद्रेण वाजमन्नं सनुयाम । लभेमहि । यदेतदस्माभिः प्रार्थितं नोऽस्मदीयं तन्मित्रादयो द्यावापृथिव्यौ च ममहंताम् । पूजितं कुर्वंतु ॥ वृजनस्य । वृजी वर्जने । क ॄप ॄवृजिमंदिनिधाञ्भ्यः क्युरिति क्युप्रत्ययः ॥ ११ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३