मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०२, ऋक् १

संहिता

इ॒मां ते॒ धियं॒ प्र भ॑रे म॒हो म॒हीम॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ आन॒जे ।
तमु॑त्स॒वे च॑ प्रस॒वे च॑ सास॒हिमिन्द्रं॑ दे॒वास॒ः शव॑सामद॒न्ननु॑ ॥

पदपाठः

इ॒माम् । ते॒ । धिय॑म् । प्र । भ॒रे॒ । म॒हः । म॒हीम् । अ॒स्य । स्तो॒त्रे । धि॒षणा॑ । यत् । ते॒ । आ॒न॒जे ।
तम् । उ॒त्ऽस॒वे । च॒ । प्र॒ऽस॒वे । च॒ । स॒स॒हिम् । इन्द्र॑म् । दे॒वासः॑ । शव॑सा । अ॒म॒द॒न् । अनु॑ ॥

सायणभाष्यम्

इमां त इत्येकादशर्चं नवमं सूक्तं कुत्सस्यार्षमैंद्रम् । अंत्या त्रिष्टुप् शिष्टा दश जगत्यः । तथा चानुक्रांतम् । इमां तेऽंत्या त्रिष्टुबिति ॥ विनियोगो लैंगिकः ॥

हे इंद्र महो महतस्ते तवेमामिदानीं क्रियमाणां महीं महतीं अत्यंतोत्कृष्टां धियं स्तुतिं प्रभरे । प्रकर्षेण संपादयामि । ते तव धिषणा त्वदीया बुद्धिरस्य मम स्तोतुः स्तोत्रे स्तुतौ यद्यस्मादानजे अक्ता संश्लिष्टासीत् । तस्मात्तव प्रियां स्तुतिं करोमीत्यर्थः । उत्तरोऽर्धर्चः परोक्षकृतः । ससहिं शत्रूणामभिभवितारं पूर्वोक्तं तमिंद्रं देवासः कर्मसु दीव्यंत ऋत्विजः शवसास्तुतिभिः कीर्तनबलेनान्वमदन् । अनुक्रमेण हर्षं प्रापयन् । किमर्थम् । उत्सवे चोत्सवार्थमभिवृद्ध्यर्थं प्रसवे च धनानां वृष्व्युदकानां वोत्पत्त्यर्थं च ॥ आनजे । अंजू व्यक्तिम्रक्षणकांतिगतिषु । अस्मात्कर्मणि लिट् । द्विर्वचनहलादिशेषौ । अत आदेरित्यभ्यासस्यात्वम् । तस्मान्नुट् द्विहलः (पा ७-४-७१) इति नुट् । व्यत्ययेनोपधानकारलोपः । उत्सवे । प्रसवे । षू प्रेरणे । ऋादोरबिति भावेऽप् । निमित्तात्कर्मसंयोगे । पा २-३-३६-६ । इति सप्तमी । थाथादिनोत्तरपदांतोदात्तत्वम् । ससहिम् । षह अभिभवे । आदृगमहन इत्यत्रोत्सर्गश्छंदसीति वचनात्किप्रत्ययः । लिड्वद्भावाद्द्विर्वचनम् । अन्येषामपि दृश्यत इति संहितायामभ्यासस्य दीर्घत्वम् । अमदन् । मदी हर्षे । हेतुमति णिच् । मदी हर्षग्लपनयोरिति घटादिषु पाठान्मितां ह्रस्व इति ह्रस्वत्वम् । छंदस्युभयथेति शप आर्धधातुकत्वाण्णेरनिटीशिणिलोपः ॥ १ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४