मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०२, ऋक् ३

संहिता

तं स्मा॒ रथं॑ मघव॒न्प्राव॑ सा॒तये॒ जैत्रं॒ यं ते॑ अनु॒मदा॑म संग॒मे ।
आ॒जा न॑ इन्द्र॒ मन॑सा पुरुष्टुत त्वा॒यद्भ्यो॑ मघव॒ञ्छर्म॑ यच्छ नः ॥

पदपाठः

तम् । स्म॒ । रथ॑म् । म॒घ॒ऽव॒न् । प्र । अ॒व॒ । सा॒तये॑ । जैत्र॑म् । यम् । ते॒ । अ॒नु॒ऽमदा॑म । स॒म्ऽग॒मे ।
आ॒जा । नः॒ । इ॒न्द्र॒ । मन॑सा । पु॒रु॒ऽस्तु॒त॒ । त्वा॒यत्ऽभ्यः॑ । म॒घ॒ऽव॒न् । शर्म॑ । य॒च्छ॒ । नः॒ ॥

सायणभाष्यम्

हॆः मघवन् धनवन्निंद्र सातयेऽस्माकं धनलाभाय तं स्म तमेव रथं प्राव । प्रेरय । वर्तय । नोऽस्माकं मनसा बुद्ध्या पुरुष्टुत बहुशः स्तुतेंद्र ते तव स्वभूतं जैत्रं जयशीलं यं रथं संगमे शत्रुभिः सह संगमन आजा युद्धे सत्यनुमदाम । वयमनुक्रमेण स्तुमः । अपि च हे मघवन् त्वायद्भ्यस्त्वां कामयमानेभ्यो नोऽस्मभ्यं शर्म सुखं यच्छ । देहि ॥ अव । अव रक्षणगतिकांतीत्युक्तत्वादवतिरत्र गत्यर्थः । संगमे । ग्रहवृदृनिश्चिगमश्चेति कर्मण्यप् । थाथादिनोत्तरपदांतोदात्तत्वम् । आजा । सुपां सुलुगिति सप्तम्या डादेशः । त्वायद्भ्यः । सुप आत्मनः क्यच् । प्रत्ययोत्तरपदयोश्चेति मपर्यंतस्य त्वादेशः । व्यत्ययेन दकारस्यात्वम् । क्यजंताल्लटः शतृ । आदुपदेशाल्लसार्वधातुकानुदात्तत्वे सति क्यचा सहैकादेश एकादेश उदात्तेनेति तस्योदात्तत्वं ॥ ३ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४