मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०२, ऋक् ४

संहिता

व॒यं ज॑येम॒ त्वया॑ यु॒जा वृत॑म॒स्माक॒मंश॒मुद॑वा॒ भरे॑भरे ।
अ॒स्मभ्य॑मिन्द्र॒ वरि॑वः सु॒गं कृ॑धि॒ प्र शत्रू॑णां मघव॒न्वृष्ण्या॑ रुज ॥

पदपाठः

व॒यम् । ज॒ये॒म॒ । त्वया॑ । यु॒जा । वृत॑म् । अ॒स्माक॑म् । अंश॑म् । उत् । अ॒व॒ । भरे॑ऽभरे ।
अ॒स्मभ्य॑म् । इ॒न्द्र॒ । वरि॑वः । सु॒ऽगम् । कृ॒धि॒ । प्र । शत्रू॑णाम् । म॒घ॒ऽव॒न् । वृष्ण्या॑ । रु॒ज॒ ॥

सायणभाष्यम्

हे इंद्र युजास्माभिर्युक्तेन सहायभूतेन त्वया वृतमावृण्वंतं शत्रुं वयं स्तोतारो जयेम । अभिभवेम । अपि च भरेभरे संग्रामे संग्रामेऽस्माकमंतमस्मदीयं भागमुदव । शत्रुकृतपीडापरिहारेणोत्कृष्टं रक्ष । तथा हे इंद्र वरिवो धनमस्मभ्यं सुगं सुगमं सुप्रापं कृधि । कुरु । तथा हे मघवन् शत्रूणामस्मदुपद्रवकारिणां वृष्ण्यावृष्ण्यानि वीर्याणि प्र रुज । प्रभंग्धि । बाधस्वेत्यर्थः ॥ वृतम् । वृञ् वरणे । क्विप्चेति क्विप् । तुगागमः । सुगम् । सुदुरोरधिकरण इति गमेर्डप्रत्ययः । कृधि । श्रुशृणुप ॄकृवृभ्य इति हेर्धिः । रुज । रुजो भंगे । तौदादिकः ॥ ४ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४