मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०२, ऋक् ५

संहिता

नाना॒ हि त्वा॒ हव॑माना॒ जना॑ इ॒मे धना॑नां धर्त॒रव॑सा विप॒न्यवः॑ ।
अ॒स्माकं॑ स्मा॒ रथ॒मा ति॑ष्ठ सा॒तये॒ जैत्रं॒ ही॑न्द्र॒ निभृ॑तं॒ मन॒स्तव॑ ॥

पदपाठः

नाना॑ । हि । त्वा॒ । हव॑मानाः । जनाः॑ । इ॒मे । धना॑नाम् । ध॒र्तः॒ । अव॑सा । वि॒प॒न्यवः॑ ।
अ॒स्माक॑म् । स्म॒ । रथ॑म् । आ । ति॒ष्ठ॒ । सा॒तये॑ । जैत्र॑म् । हि । इ॒न्द्र॒ । निऽभृ॑तम् । मनः॑ । तव॑ ॥

सायणभाष्यम्

हे धनानां धर्तर्गोहिरण्यादिरूपाणां द्रव्याणां धारयितरिंद्र विपन्यवः । स्तोनृनामैतत् । स्तोतार इमे जना अवसा रक्षणेन हेतुना त्वा हवमानास्त्वामाह्वयंतो नाना हि । विभिन्नाः खलु । तेषां मध्येऽस्माकं स्मास्माकमेव सातये धनदानाय रथमातिष्ठ । आरोह । हे इंद्र निभृतमव्याकुलं तव मनश्चित्तं जैत्रं हि । जयशीलं खलु । शत्रूञ्जित्वाऽस्मभ्यं धनं दातुं समर्थमित्यर्थः ॥ सातये । षणु दाने । क्तिनि जनसनखनां सन् झलोरित्यात्वं ॥ ५ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४