मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०२, ऋक् ९

संहिता

त्वां दे॒वेषु॑ प्रथ॒मं ह॑वामहे॒ त्वं ब॑भूथ॒ पृत॑नासु सास॒हिः ।
सेमं नः॑ का॒रुमु॑पम॒न्युमु॒द्भिद॒मिन्द्र॑ः कृणोतु प्रस॒वे रथं॑ पु॒रः ॥

पदपाठः

त्वाम् । दे॒वेषु॑ । प्र॒थ॒मम् । ह॒वा॒म॒हे॒ । त्वम् । ब॒भू॒थ॒ । पृत॑नासु । स॒स॒हिः ।
सः । इ॒मम् । नः॒ । का॒रुम् । उ॒प॒ऽम॒न्युम् । उ॒त्ऽभिद॑म् । इन्द्रः॑ । कृ॒णो॒तु॒ । प्र॒ऽस॒वे । रथ॑म् । पु॒रः ॥

सायणभाष्यम्

हे इंद्र देवेषु प्रथमं श्रेष्ठं त्वां हवामहे । यागार्थमाह्वयामहे । तथा त्वं पृतनासु संग्रामेषु सासहिर्बभूथ । शत्रूणामभिभवितासि । उत्तरार्धः परोक्षकृतः । स इंद्रो नोऽस्माकं कारु स्तुतीनां कर्तारमुपमन्युमुपमंतारम् । सर्वज्ञमुद्भिदं शत्रूणामद्भेत्तारमिममेवंगुणविशिष्टं पुत्रं कृणोतु । करोतु । अपि च प्रसवे युद्धोत्पत्तावस्मदीयं रथं पुरोऽन्येभ्यो रथेभ्यः पुरतो वर्तमानं करोतु । यद्वा । कारुमित्यादीनि रथविशेषणानि । कारुं युद्धस्य कर्तारमुपमन्युमुपगतेन प्राप्तेन मन्युना क्रोधेन युक्तमुद्भिदं मर्गेऽवस्थितानां वृक्षादीनामुद्भेत्तारमतिशयेन भंक्तारं ॥ बभूथ । बभूथा ततंथ जगृंभ ववर्थेति निगम इति निपातनादिडभावः । स इमम् । सोऽचिलोपे चेत्पादपूरणमिति सुलोपः । प्रसवे । षूङ् प्राणिप्रसवे । ॠदोरप् । थाथादिनोत्तरपदांतोदात्तत्वं ॥ ९ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५