मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०३, ऋक् १

संहिता

तत्त॑ इन्द्रि॒यं प॑र॒मं प॑रा॒चैरधा॑रयन्त क॒वयः॑ पु॒रेदम् ।
क्ष॒मेदम॒न्यद्दि॒व्य१॒॑न्यद॑स्य॒ समी॑ पृच्यते सम॒नेव॑ के॒तुः ॥

पदपाठः

तत् । ते॒ । इ॒न्द्रि॒यम् । प॒र॒मम् । प॒रा॒चैः । अधा॑रयन्त । क॒वयः॑ । पु॒रा । इ॒दम् ।
क्ष॒मा । इ॒दम् । अ॒न्यत् । दि॒वि । अ॒न्यत् । अ॒स्य॒ । सम् । ई॒मिति॑ । पृ॒च्य॒ते॒ । स॒म॒नाऽइ॑व । के॒तुः ॥

सायणभाष्यम्

तत्त इत्यष्टर्चं दशमं सूक्तं कुत्सस्यार्षमैंद्रं त्रैष्टुभम् । तथा चानु क्रांतम् । तत्तेऽष्टाविति ॥ तृतीये छंदोमे निष्केवल्य इदं सूक्तं निविद्धानम् । विश्वजित इति खंडे सूत्रितम् । तत्त इंद्रयमिति निष्केवल्यम् (आ ८-७) इति ॥

हे इंद्र ते त्वदीयं परममुत्कृष्टं तत्प्रसिद्धमिदं वर्तमानमिंद्रियं बलं पुरा पूर्वस्मिन्काले कवयः क्रांतदर्शिनः स्तोतारः पराचैः पराचीनं पराङ्मुखम् । यद्वा । पराचैः परांचनैः परागमनैर्युक्तम् । युद्धाभिमुखमेवाधारयंत । धृतवंतः । अपि चास्येंद्रस्यान्यदेकमिदमग्न्याख्यं ज्योतिः क्षमा क्षमायां भूमौ वर्तते । अन्यदप्येकं सूर्याख्यं दिवि द्युलोके । ईं तदिदमुभयविधमिंद्रस्य ज्योतिः संपृच्यते । परस्परं सं युज्यते । रात्रावादित्योऽग्निना संयुक्तो भवति । अग्निं वावादित्यः सायं प्रविशति । तस्मादग्निर्दूरान्नक्तं ददृश इति श्रुतेः । अहनि त्वग्निः सूर्येण संगच्छते । उद्यंतं वावादित्यमग्निरनुसमारोहति । तस्माद्धूम एवाग्नेर्दिवा ददृश इति श्रुतेः । तै ब्रा २-१-२-९, १० । अनयोः परस्परसंगमने दृष्टांतः । समनेव केतुः । समनशब्दः संग्रामवाची । यथा समने संग्रामे यध्यमानयोरुभयोः केतुर्ध्वजो ध्वजांतरेण संयुज्यते तद्वत् ॥ इंद्रियम् । इंद्रस्य लिंगं बलम् । इंद्रियमिंद्रलिंगमिति घच्प्रत्ययांतो निपात्यते । पराचैः । अव्ययमेतत् उच्चैर्नीचैरिति यथा । यास्कस्त्वाह । पराचैः परांचनैः । नि ११-२५ । इति । क्षमा । सुपां सुलुगिति सप्तम्या लुक् । ईमो मलोपः सांहितिकश्छांदसः । समनेव । षम ष्वम अवैक्लव्ये । अन्येभ्योऽपि दृश्यते (पा ३-३-१३०) इकि युच् । सुपां सुलुगिति सप्तम्या आकारः । इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं चेति समासः ॥ १ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६