मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०३, ऋक् २

संहिता

स धा॑रयत्पृथि॒वीं प॒प्रथ॑च्च॒ वज्रे॑ण ह॒त्वा निर॒पः स॑सर्ज ।
अह॒न्नहि॒मभि॑नद्रौहि॒णं व्यह॒न्व्यं॑सं म॒घवा॒ शची॑भिः ॥

पदपाठः

सः । धा॒र॒य॒त् । पृ॒थि॒वीम् । प॒प्रथ॑त् । च॒ । वज्रे॑ण । ह॒त्वा । निः । अ॒पः । स॒स॒र्ज॒ ।
अह॑न् । अहि॑म् । अभि॑नत् । रौ॒हि॒णम् । वि । अह॑न् । विऽअं॑सम् । म॒घऽवा॑ । शची॑भिः ॥

सायणभाष्यम्

स इंद्रः पृथिवीमसुरैः पीडितां भूमिं धारयत् । धृतवान् । पीडाराहित्येन स्थितामकरोदित्यर्थः । तदनंतरं पप्रथच्च । तां भूमिं विस्तीर्णामकरोत् । अपि च वज्रेणायुधेन हंतव्यान्वृत्रादीन्ङत्वापो वृष्ट्युदकानि निः ससर्ज मेघान्निर्गमयामास । एतदेव स्पष्टीक्रियते । अहिमंतरिक्षे वर्तमानं मेघमहन् । वज्रेण वर्षणार्थमताडयत् । रौहिणम् । रौहिणो नाम कश्चिदसुरः । तं च व्यभिनत् । व्यदारयत् । अपि च मघवा धनवानिंद्रः शचीभिरात्मीयैर्युद्धकर्मभिर्व्यंसं विगतभुजं वृत्रासुरमहन् । अवधीत् ॥ पप्रथत् । पृथुं करोति प्रथयति । तत्करोतीति णिच् । णाविष्ठवत्प्रातिपदिकस्य कार्यम् । पा ६-४-१५५-१ । इति वचनाद्र ऋतो हलादेर्लघोः (पा ६-४-१६१) इति ऋकारस्य रत्वम् । टेरिति टलोपः । तस्य स्थानिवद्भावाद्वृद्ध्यभावः । प्रथयतेर्लुङि चङि णिलोपः । द्विर्वचने चङ्यन्यतरस्याम् (पा ६-१-२१८) इति चङः पूर्वस्योदात्तत्वम् । न णिलोपस्य स्थानिवत्त्वं न पदांतेत्यादिना स्वरविधिं प्रति तन्निषेधात् । पूर्वपदस्यासमानवाक्यस्थत्वान्निघाताभावः ॥ २ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६