मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०३, ऋक् ४

संहिता

तदू॒चुषे॒ मानु॑षे॒मा यु॒गानि॑ की॒र्तेन्यं॑ म॒घवा॒ नाम॒ बिभ्र॑त् ।
उ॒प॒प्र॒यन्द॑स्यु॒हत्या॑य व॒ज्री यद्ध॑ सू॒नुः श्रव॑से॒ नाम॑ द॒धे ॥

पदपाठः

तत् । ऊ॒चुषे॑ । मानु॑षा । इ॒मा । यु॒गानि॑ । की॒र्तेन्य॑म् । म॒घऽवा॑ । नाम॑ । बिभ्र॑त् ।
उ॒प॒ऽप्र॒यन् । द॒स्यु॒ऽहत्या॑य । व॒ज्री । यत् । ह॒ । सू॒नुः । श्रव॑से । नाम॑ । द॒धे ॥

सायणभाष्यम्

नाम शत्रूणां नामकं तदिंद्रस्य बलमूचुष उक्तवते स्तुवते यजमानाय कीर्तेन्यं कीर्तनीयं स्तुत्यम् । नामकं तद्बलं बिभ्रद्धारयन्मघवा धनवानिंद्रो मानुषा कीर्तनीयं स्तुत्यम् । नामकं तद्बलं बिभ्रद्धारयन्मघवा धनवानिंद्रो मानुषा मनुष्याणां संबंधिनीमेमानि दृश्यमानानि युगान्यहोरात्रसंघनिष्पाद्यानि कृतत्रेतादीनि सूर्यात्मना निष्पादयतीति शेषः । किं पुनस्तन्नाम । दस्युहत्याय दस्यूनां वृत्रादीनां हननायोपप्रयन् गृहसमीपान्निर्गच्छन् वज्री वज्रवान्सूनुः शत्रूणां प्रेरयितेंद्रो यद्ध यत्खलु नाम शत्रूणां नामकं श्रवसे जयलक्षणाय यशसे दधे धृतवान् ॥ ऊचुषे । ब्रूञ् व्यक्तायां वाचि । ब्रुवो वचिः । लिटः क्वसुः वचिस्वपीत्यादिना संप्रसारणम् । चतुर्थ्येकवचने भसंज्ञायां वसोः संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वम् । क्वसुप्रत्ययाद्युदात्तत्वम् । कीर्तेन्यम् । क ॄत संशब्दने । कृत्यार्थे तवैकेनिति केन्यप्रत्ययः । मघवा । मघशब्दाच्छंदसीवनिपाविति मत्वर्थीयो वनिप् । बिभ्रत् । डुभृञ् धारणपोषणयोः । शतरि जुहोत्यादित्वाच्छपः श्लुः । भृञामिदित्यभ्यासस्येत्वम् । नाभ्यस्ताच्छतुरिति नुमागमप्रतिषेधः । अभ्मस्तानामादिरित्याद्युदात्तत्वं ॥ ४ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६