मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०३, ऋक् ५

संहिता

तद॑स्ये॒दं प॑श्यता॒ भूरि॑ पु॒ष्टं श्रदिन्द्र॑स्य धत्तन वी॒र्या॑य ।
स गा अ॑विन्द॒त्सो अ॑विन्द॒दश्वा॒न्त्स ओष॑धी॒ः सो अ॒पः स वना॑नि ॥

पदपाठः

तत् । अ॒स्य॒ । इ॒दम् । प॒श्य॒त॒ । भूरि॑ । पु॒ष्टम् । श्रत् । इन्द्र॑स्य । ध॒त्त॒न॒ । वी॒र्या॑य ।
सः । गाः । अ॒वि॒न्द॒त् । सः । अ॒वि॒न्द॒त् । अश्वा॑न् । सः । ओष॑धीः । सः । अ॒पः । सः । वना॑नि ॥

सायणभाष्यम्

हे ऋत्विग्यजमानलक्षणा जनाः अस्येंद्रस्य तदिदं वीर्यं पुष्टं प्रवृद्धम् । अत एव भूरि विस्तीर्णं पश्यत । आलोकयत । तस्मै च वीर्याय श्रद्धत्तनः । बहुमानं कुरुत । किं पुनस्तद्वीर्यमिति चेत् उच्यते । स इंद्रः पणिभिरपहृता गा येन वीर्येणाविंदत् अलभत । तथा तैरपहृतानश्वान्स इंद्रो येनाविंदत् । अपि च स इंद्र ओषधीरोषध्युपलक्षितां सर्वां भूमिं येन वीर्येणालभत । तथा वृत्रेण निरुद्धा अपो वृष्ट्युदकानि स इंद्रो येनालभत । तथा वनानि वननीयानि संभजनीयानि धनानि स इंद्रो येन वीर्येण प्राप्नोत् ॥ धत्तन । तप्तनप्तनथनाश्चेति तस्य तनादेशः । अविंदत् । विद्लृलाभे । शे मुचादीनामिति नुम् ॥ ५ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६