मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०३, ऋक् ६

संहिता

भूरि॑कर्मणे वृष॒भाय॒ वृष्णे॑ स॒त्यशु॑ष्माय सुनवाम॒ सोम॑म् ।
य आ॒दृत्या॑ परिप॒न्थीव॒ शूरोऽय॑ज्वनो वि॒भज॒न्नेति॒ वेदः॑ ॥

पदपाठः

भूरि॑ऽकर्मणे । वृ॒ष॒भाय॑ । वृष्णे॑ । स॒त्यऽशु॑ष्माय । सु॒न॒वा॒म॒ । सोम॑म् ।
यः । आ॒ऽदृत्य॑ । प॒रि॒प॒न्थीऽइ॑व । शूरः॑ । अय॑ज्वनः । वि॒ऽभज॑न् । एति॑ । वेदः॑ ॥

सायणभाष्यम्

भूरिकर्मणे बहुविधेन शत्रुवधादिरूपेण । कर्मणा युक्ताय वृषभाय वृषभवत्सर्वेषु देवेषु श्रेष्ठाय वृष्णे सेचनसमर्थाय सत्यशुष्मायावितथबलायेंद्राय तदर्थं सोमं सुनवाम । होमार्थं रसरूपं करवाम । शूरः शौर्योपेतो य इंद्र आदृत्य धनविषयमादरं कृत्वायज्वनोऽयजमानस्य वेदो धनं विभजन् । तस्मादयजमानाद्विभक्तं कुर्वन्नपहरन्नेति । यजमानेभ्यस्तद्धनं दातुं गच्छति । तत्र दृष्टांतः । परिपंथीव । यथा मार्गनिरोधकश्चोरो गच्छतां पुण्यपुरुषाणां धनं बलात्कारेणापहृत्य गच्छति । तद्वत् ॥ आदृत्य । दृङ् आदरेः । समासेऽनञ्पूर्वे क्त्वो ल्यप् । तस्य स्थानिवद्भावेन कृत्वे सति ह्रस्वस्य पितिकृतीति तुक् । परिपंथीव । छंदसि परिपंथिपरिपरिणौ पर्यवस्थातरि (पा ५-२-८९) इतीनिप्रत्ययांतो निपात्यते ॥ ६ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७