मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०३, ऋक् ७

संहिता

तदि॑न्द्र॒ प्रेव॑ वी॒र्यं॑ चकर्थ॒ यत्स॒सन्तं॒ वज्रे॒णाबो॑ध॒योऽहि॑म् ।
अनु॑ त्वा॒ पत्नी॑र्हृषि॒तं वय॑श्च॒ विश्वे॑ दे॒वासो॑ अमद॒न्ननु॑ त्वा ॥

पदपाठः

तत् । इ॒न्द्र॒ । प्रऽइ॑व । वी॒र्य॑म् । च॒क॒र्थ॒ । यत् । स॒सन्त॒म् । वज्रे॑ण । अबो॑धयः । अहि॑म् ।
अनु॑ । त्वा॒ । पत्नीः॑ । हृ॒षि॒तम् । वयः॑ । च॒ । विश्वे॑ । दे॒वासः॑ । अ॒म॒द॒न् । अनु॑ । त्वा॒ ॥

सायणभाष्यम्

हे इंद्र तद्वीर्यं वीरकर्म प्रेव चकर्थ । प्रख्यातमिवाकार्षीः । किं पुनस्तद्वीर्यम् । ससंतं स्वपंतं मदोन्मत्तमहिं वृत्रं वज्रेण कुलिशेन यद्येन वीर्येण त्वमबोधयः । प्रबुद्धः सन्मया सह युद्धं करोत्विति हृषितं तादृशस्य वृत्रस्य हननेन प्राप्तहर्षं त्वामनु पश्चात्पत्नीर्देवपत्न्य अमदन् । हर्षं प्राप्ताः । अपि च वयश्च गमनशीला मरुतोऽपि तथा विश्वे देवासोऽन्ये च सर्वे देवास्त्वामनु पश्चादमदन् । अमाद्यन् ॥ ससंतम् । षस स्वप्ने । अदादित्वाच्छपो लुक् । पत्नीः । वा छंदसीति पूर्वसवर्णदीर्घत्वम् । अमदन् । मदी हर्षे । व्यत्ययेन शप् ॥ ७ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७