मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०३, ऋक् ८

संहिता

शुष्णं॒ पिप्रुं॒ कुय॑वं वृ॒त्रमि॑न्द्र य॒दाव॑धी॒र्वि पुर॒ः शम्ब॑रस्य ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥

पदपाठः

शुष्ण॑म् । पिप्रु॑म् । कुय॑वम् । वृ॒त्रम् । इ॒न्द्र॒ । य॒दा । अव॑धीः । वि । पुरः॑ । शम्ब॑रस्य ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

सायणभाष्यम्

हे इंद्र त्वं शुष्णादींश्चतुरोऽसुरान्यदावधीः हतवानसि तदानीं शंबरस्यासुरस्य पुरो नगराणि विदारितवानसि । असुराणां मुख्येषु हतेष्वन्यान्यप्यसुरपुराणि विदीर्णान्यासन्नित्यर्थः । यदनेन सूक्तेन प्रार्थितमस्मदीयं तन्मित्रादयो ममहंताम् । पूजितं कुर्वंतु ॥ शुष्णम् । शुष शोषणे । अंतर्भावितण्यर्थात् तृषिशुषिरसिभ्यः किच्च (उ ३-१२) इति नप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तत्वम् । पिप्रुम् । पृ पालनपूरणयोः । पृ इत्येके । औणादिकः । कुप्रत्ययः । छंदस्युभयथेति तस्य । सार्वधातुकत्वे सति शप् । जुषोत्यादित्यात् श्लुः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । कुयवम् । यवो यवनम् । मिश्रणम् । कुत्सितम् । यवनमस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । शंबरस्य । शमयतीति शंब आयुधम् । शमेर्वन् (उ ४-९४) ततो मत्वर्थीयो रप्रत्ययः ॥ ८ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७