मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०४, ऋक् १

संहिता

योनि॑ष्ट इन्द्र नि॒षदे॑ अकारि॒ तमा नि षी॑द स्वा॒नो नार्वा॑ ।
वि॒मुच्या॒ वयो॑ऽव॒सायाश्वा॑न्दो॒षा वस्तो॒र्वही॑यसः प्रपि॒त्वे ॥

पदपाठः

योनिः॑ । ते॒ । इ॒न्द्र॒ । नि॒ऽसदे॑ । अ॒का॒रि॒ । तम् । आ । नि । सी॒द॒ । स्वा॒नः । न । अर्वा॑ ।
वि॒ऽमुच्य॑ । वयः॑ । अ॒व॒ऽसाय॑ । अश्वा॑न् । दो॒षा । वस्तोः॑ । वही॑यसः । प्र॒ऽपि॒त्वे ॥

सायणभाष्यम्

योनिरिति नवर्चमेकादशं सूक्तं कुत्सस्यार्षं त्रैष्टुभमैंद्रम् । योनिर्नवेत्यनुक्रांतं ॥ सूक्तविनियोगो लैंगिकः ॥

हे इंद्र योनिर्वेद्याख्यं स्थानं ते तव निषदे निषदनायोपवेशनायाकारि । कृतमस्माभिः प्रकल्पितमभूत् । तं योनिमा नि षीद । शीघ्रमागत्य तत्रोपविश । शीघ्रागमने दृष्टांतः । स्वानो नार्वा । अर्वेत्यश्वनाम । यथाश्वः स्वानो हेषाशब्दं कुर्वन् स्वकीयं स्थानं शीघ्रमागच्छति तद्वत् । किं कृत्वा । वयोऽश्वबंधनार्थान् रश्मीन्विमुच्य रथाद्विश्लिष्य तथाश्वान् रथे योजितांश्च तुरगानवसाय विमुच्य । अत्र निरुक्तम् । अवसायाश्वानिति स्यतिरुपसृष्टो विमोचने (नि १-१७) इति । कीदृशानश्वान् । प्रपित्वे यागकाले प्राप्ते । प्रपित्वे प्राप्तेऽभीकेऽभ्यक्ते (नि ३-२०) इति यास्कः । दोषा रात्रौ वस्तोरहनि च वहीयस आदरातिशयेन वोढ ॄन् ॥ निषदे । सदेः संपदादिलक्षणो भावे क्विप् । स्वानः । स्यमु स्वन ध्वन शब्दे । बहुलवचनात्कर्तरि घञ् । कर्षात्वत इत्यंतोदात्तत्वम् । वयः । वियंति रथेन सह संगच्छंत इति विशब्देन रश्मय उच्यंते । वी गत्यादिषु । औणादिक इप्रत्ययः । टलोपश्च । द्वितीयार्थे प्रथमा । अवसाय । षो अंतकर्मणि । आदेच इत्यात्वम् । समासेऽनञ्पूर्व इति क्त्वोल्यबादेशः । वहीयसः । वह प्रापणे । तृजंताद्वोढृशब्दात्तुश्छंदसीतीयसुन् । तुरिष्ठेमेयःस्विति तृलोपे कर्तव्ये ढत्वधत्वष्वुत्वढ्रलोपानामसिद्धत्वात्तदाश्रितस्यौत्वस्याप्यभावे तृलोप एव क्रियते ॥ १ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८