मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०४, ऋक् ५

संहिता

प्रति॒ यत्स्या नीथाद॑र्शि॒ दस्यो॒रोको॒ नाच्छा॒ सद॑नं जान॒ती गा॑त् ।
अध॑ स्मा नो मघवञ्चर्कृ॒तादिन्मा नो॑ म॒घेव॑ निष्ष॒पी परा॑ दाः ॥

पदपाठः

प्रति॑ । यत् । स्या । नीथा॑ । अद॑र्शि । दस्योः॑ । ओकः॑ । न । अच्छ॑ । सद॑नम् । जा॒न॒ती । गा॒त् ।
अध॑ । स्म॒ । नः॒ । म॒घ॒ऽव॒न् । च॒र्कृ॒तात् । इत् । मा । नः॒ । म॒घाऽइ॑व । नि॒ष्ष॒पी । परा॑ । दाः॒ ॥

सायणभाष्यम्

यद्यदा नीथा नयनहेतुभूता स्या सा पदवी प्रत्यदर्शि अस्माभिर्दृष्टाभूत् । सा च पदवी दस्योरुपक्षपयितुः कुयवस्यासुरस्य सदनं गृहमच्छाभिमुख्येन गात् । गता प्राप्ता । तत्र दृष्टांतः । जानती स्वकीयं वत्समभिजानती गौरेकोन निवासस्थानं स्वकीयं गोष्ठं यथा ऋजु प्राप्नोति । तद्वन्नार्गोऽप्यसुरगृहं प्राप्त इत्यर्थः । अध स्म अथानंतरमेव हे मघवन्धनवन्निंद्र चर्कृतात्पुनःपुनस्तेनासुरेण कृतादुपद्रवान्नोऽस्मान्रक्षेति शेषः । इदित्यवधारणे । अस्मान्रक्षैव नोऽस्मान्मा परा दाः । मा परित्याक्षीः । अस्माभिर्ज्ञातेन मार्गेण गत्वाऽस्मदुपद्रवकारिणमसुरं जहीति तात्पर्यार्थः । तत्र व्यतिरेके दृष्टांतोऽभिधीयते । मघेव निप्षपी । यथा विनिर्गतसपो विनिर्गतशेपो यथेष्टचारी दासीपतिर्मघेव यथा धनान्यस्थाने परित्यजनि तथास्मान्मा परित्याक्षीरित्यर्थः । अत्र निरुक्तम् । निप्षपी स्त्रीकामो भवति विनिर्गतपसाः । सपः सपतेः स्पृशतिकर्मणः । मा नो मघेव निप्षपी परा दाः स यथा धनानि विभजति मा नस्त्व तथा परा दाः (नि ५-१६) इति । नीथा । णीञ् प्रापणे । हनिकुषिनीरमिकाशिभ्यः क्थन्निति करणे क्थन्प्रत्ययः । गात् । एतेर्लुङी णोगा । लुङीति गादेशः । गातिस्थेति सिचो लुक् । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । चर्कृतात् । करोतेर्यङ् लुगंतान्निप्शेति क्तप्रत्ययः मघाऽइव । शेश्छंदसीति शेर्लोपः । निप्षपी । षप समनाये । सपति समवैति योन्या संगच्छत इति सपः शेपः । पचाद्यच् । निर्गतो नित्योद्धृतः सपः शेपो यस्य स स्त्रीव्यसनी निष्षपः । वर्णव्यापत्त्या ईकारः । दाः । डुदाञ् दाने । लुङि गातिस्थेति सिचो लुक् । न माङ्योग इत्यडभावः ॥ ५ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८