मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०४, ऋक् ९

संहिता

अ॒र्वाङेहि॒ सोम॑कामं त्वाहुर॒यं सु॒तस्तस्य॑ पिबा॒ मदा॑य ।
उ॒रु॒व्यचा॑ ज॒ठर॒ आ वृ॑षस्व पि॒तेव॑ नः शृणुहि हू॒यमा॑नः ॥

पदपाठः

अ॒र्वाङ् । आ । इ॒हि॒ । सोम॑ऽकामम् । त्वा॒ । आ॒हुः॒ । अ॒यम् । सु॒तः । तस्य॑ । पि॒ब॒ । मदा॑य ।
उ॒रु॒ऽव्यचाः॑ । ज॒ठरे॑ । आ । वृ॒ष॒स्व॒ । पि॒ताऽइ॑व । नः॒ । शृ॒णु॒हि॒ । हू॒यमा॑नः ॥

सायणभाष्यम्

माध्यंदिने सवनेऽर्वाङीहीत्येषा पोतुः प्रस्थितयाज्या । सूत्रितं च अर्वाङीहि सोमकामं त्वाहुस्तवायं सोमस्त्वमेह्यर्वाङ् । अ ५-५ । इति ॥

हे इंद्र त्वमर्वाङ् अस्मदभिमुखः सन् एहि । आगच्छ । किं कारणमिति चेत् यस्मात्त्वां सोमकामं सोमविषयाभिलाषमाहुः पुराविदः कथयंति । अयमस्मदीयः सोमः सुतः । ऋत्विग्भिरभिषुतः । अत आगच्छेत्यर्थः । आगत्य च मदायहर्षार्थं तस्य तमस्मदीयमभिषुतं सोमं पिब । एतदेव स्पष्टीक्रियते उरुव्यचा उरु विस्तीर्ण व्यचो व्यापनं यस्य तादृशो महावयवो भूत्वा जठर आत्मीय उदर आ वृषस्व । सोममासिंच । अ समंतात्पूरयेत्यर्थः । एवं भूतस्त्वं हूयमानः वाक्यानि शृणुहि । शृणु ॥ सोमकामं । सोमविषयः कामोऽभिलाषो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं । आहुः । ब्रुवः पंचानामादित आहो ब्रुवः । पा ३-४-८४ । इति झेरुसादेशो धातोराहादेशश्च । तस्य । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । मदाय । मदी हर्षे । मदोऽनुपसर्ग इति भावेऽप् । उरुव्यचाः । वृच व्याजीकरणे । औणादिकोऽसिप्रत्ययः । व्यचेः कुटादित्वमनसीति वचनात् । का १-२-१-१ । ङित्त्वाभावेन संप्रसारणाभावः । परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वं । यद्वा । उरु विचति व्याप्नोतीत्युरुव्यचाः । कृदुत्तरपदप्रकृतिस्वरत्वं । वृषस्व । वृष सेचने । व्यत्ययेनात्मनेपदशप्रत्ययौ । शृणुहि । उतश्च प्रत्ययाच्छंदसि वावचनमिति हेर्लुगभावः ॥ ९ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९