मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०५, ऋक् ३

संहिता

मो षु दे॑वा अ॒दः स्व१॒॑रव॑ पादि दि॒वस्परि॑ ।
मा सो॒म्यस्य॑ श॒म्भुव॒ः शूने॑ भूम॒ कदा॑ च॒न वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥

पदपाठः

मो इति॑ । सु । दे॒वाः॒ । अ॒दः । स्वः॑ । अव॑ । पा॒दि॒ । दि॒वः । परि॑ ।
मा । सो॒म्यस्य॑ । श॒म्ऽभुवः॑ । शूने॑ । भू॒म॒ । कदा॑ । च॒न । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥

सायणभाष्यम्

हे देवाः स्वः स्वर्गे वर्तमानमदस्तदस्मदीयं पितृपितामहप्रपितामहात्मकं संतानं दिवस्परि दिवश्चोपरि वर्तमानं मो षु मैवाव पादि । अवपन्नं विपन्नं प्रभ्रष्टं मा भूत् मम पुत्राभावात् । पुत्रेण लोकाञ्जयति नापुत्रस्य लोकोऽस्तीति श्रुतेः । अतो वयं सोम्यस्य सोमपानार्हस्य पितृगणस्य शंभुवः सुखस्य भावयितुः पुत्रस्य शूने आपगमने कदा चन कदाचिदपि मा भूम । युष्मत्ष्रसादान्मम पुत्रा जायंताम् । अतो मामस्माद्दुःखादुत्तारयतेत्यर्थः हे द्यावापृथिव्यौ युवां च मदीयं विज्ञापनं जानीतं ॥ मो । मा उ इति निपातद्वयसमुदायो मैवेत्यस्यार्थे । सु इत्येतदवधारणे । सुञ इति षत्वम् । पादि पद गतौ । चिण् ते पदः (पा ३-१-६०) इति कर्तरि लुङि श्लेश्चिणादेशः । दिवः । ऊडिदमिति विभक्तेरुदात्तत्वम् । पंचम्याः परावध्यर्थ इति विसर्जनीयस्य सत्वम् । सोम्यस्य सोममर्हति यः (पा ४-४-१३७) इति यप्रत्ययः । शंभुवः । भवतेरंतर्भावितण्यर्थात्क्विप् । शूने । टुओश्वि गतिवृद्थ्योः । भावे निष्ठा । श्विदिशो निष्ठायामितीट् प्रतिषेधः । वचिस्वपीत्यादिना संप्रसारणम् । ओदितश्च (पा ८-२-४५) इति । निष्ठानत्वम् । व्यत्ययेनाद्युदात्तत्वम् । वृषादिर्वा द्रष्टव्य ॥ ३ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०