मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०५, ऋक् ४

संहिता

य॒ज्ञं पृ॑च्छाम्यव॒मं स तद्दू॒तो वि वो॑चति ।
क्व॑ ऋ॒तं पू॒र्व्यं ग॒तं कस्तद्बि॑भर्ति॒ नूत॑नो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥

पदपाठः

य॒ज्ञम् । पृ॒च्छा॒मि॒ । अ॒व॒मम् । सः । तत् । दू॒तः । वि । वो॒च॒ति॒ ।
क्व॑ । ऋ॒तम् । पू॒र्व्यम् । ग॒तम् । कः । तत् । बि॒भ॒र्ति॒ । नूत॑नः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥

सायणभाष्यम्

यज्ञं यजनीयमवमं सर्वेषां देवानामादिभूतम् । अग्नि र्मुखं प्रथमो देवतानाम् । ऐ ब्रा १-४ । इति श्रुतेः । अग्निर्वै देवानामवम इति ब्राह्मणाच्च । तमग्निं पृच्छामि । यन्मया पृष्टं तद्देवानां दूतः सोऽग्निर्विवोचति । विविच्य कथयतु । किं पुनस्तत्पृच्छ्यत इति चेत् उच्यते । हे अग्ने त्वदीयं पूर्व्यं पूर्वकालीनमृतं भद्रं स्तोतृभ्यः कृतं श्रेयः क्व गतम् । कुत्रेदानीं वर्तते । नूतनो नवतरस्त्वत्तोऽन्यः कः पुरुषस्तद्भद्रं बिभर्ति । धारयति । यदि त्वय्यवर्तिष्यत ममेदृशी दशापि नाभविष्यत् । अतस्तत् क्व गतमिति कथय ॥ वोचति । वच परिभाषणे । लेट्यडागपुः । वच उमिति व्यत्ययेन धातोरुमागमः । क्व । किमोऽत् (पा ५-३-१२) इति सप्तम्यर्थ्येत् । क्वाति (पा ७-२-१०५) इति किमः क्वादेशः । तित्स्वरित इति स्वरितत्वम् । परेण सह ऋत्यक इति प्रकृतिभावः ॥ ४ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०