मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०५, ऋक् ६

संहिता

कद्व॑ ऋ॒तस्य॑ धर्ण॒सि कद्वरु॑णस्य॒ चक्ष॑णम् ।
कद॑र्य॒म्णो म॒हस्प॒थाति॑ क्रामेम दू॒ढ्यो॑ वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥

पदपाठः

कत् । वः॒ । ऋ॒तस्य॑ । ध॒र्ण॒सि । कत् । वरु॑णस्य । चक्ष॑णम् ।
कत् । अ॒र्य॒म्णः । म॒हः । प॒था । अति॑ । क्रा॒मे॒म॒ । दुः॒ऽध्यः॑ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥

सायणभाष्यम्

हे देवा वो युष्माकं संबंधिन ऋतस्य सत्यस्याभिमतफलप्रापणस्य धर्णसि धारणं कत् । कुत्र गतम् । वरुणस्यानिष्टनिवारकस्य देवस्य चक्षणमनुग्रहदृष्ट्या दर्शनं कत् । क्व गतम् । महो महतो महानुभावस्यार्यम्णोऽरीणां नियंतुरेतत्संज्ञ कस्य देवस्य संबंधिना पथा शोभनमार्गेणेष्टदेशप्रापणं कत् । क्व गतम् । एतत्सर्वं युष्मास्वेव वर्तते । न कुत्रापि गतम् । अतो वयं दूढ्यो दुर्धियः पापबुद्धीनस्मदनिष्टाचरणपरान् शत्रूनति क्रामेम । अतितरेम । तैः कृतादस्मात्कूपपातलक्षणाद्दुःखाद्वयमुत्तीर्णा भवेम । हे व्यापापृथिव्यौ मदीयमिदं जानीतं ॥ धर्णसि । धृञ् धारणे । सानसिधर्णसिपर्णसीत्यादिना (उ ४-१०७) असिच्प्रत्ययांतो निपात्यते । अर्यम्णः । षष्ठ्येकवचनेऽल्लोपोऽन इत्यकारलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । महः । महतोऽच्छब्दलोपश्छांदसः । यद्वा । मह पूजायाम् । क्विप् । उभयथापि सावेकाच इति विभक्तेरुदात्तत्वम् । दूढ्यः । पृषोदरादिः । ध्यै चेति तत्र पाठाद्दुरो रेफस्योत्वम् । उत्तरपदादेः ष्टुत्वं च । उदात्तस्वरितयोर्यण इति स्वरितत्वं ॥ ६ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१