मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०५, ऋक् ११

संहिता

सु॒प॒र्णा ए॒त आ॑सते॒ मध्य॑ आ॒रोध॑ने दि॒वः ।
ते से॑धन्ति प॒थो वृकं॒ तर॑न्तं य॒ह्वती॑र॒पो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥

पदपाठः

सु॒ऽप॒र्णाः । ए॒ते । आ॒स॒ते॒ । मध्ये॑ । आ॒ऽरोध॑ने । दि॒वः ।
ते । से॒ध॒न्ति॒ । प॒थः । वृक॑म् । तर॑न्तम् । य॒ह्वतीः॑ । अ॒पः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥

सायणभाष्यम्

सुपर्णाः । रश्मिनामैतत् । शोभनपतना एते सूर्यरश्मय आरोधने सर्वस्यावरके व्याप्ते दिवोंतरिक्षस्य मध्य आसते वर्तंते । ते सूर्यरश्मयः पथोमार्गाद्वृकमरण्यश्वानं सेधंति । निषेधंति । निवारयंति । कीदृशम् । यह्वतीर्महतीरपस्तरंतमतिक्रामंतम् । कूपपतनात्पूर्वं त्रितं दृष्टैनं भक्षयितुं कश्चिदरण्यश्वा महतीं नदीं तितीर्षुराजगाम । स च सूर्यरश्मीन्दृष्ट्वा यमवसरो न भवतीति निववृते । अतो रश्मयो वृकं निषेधंतीत्युच्यते । यास्कपक्षे त्वाप इत्यंतरिक्षनाम । यह्वतीरपो महदंतरिक्षं पथः पथा द्वादशरश्म्यात्मना मार्गेण तरंतं वृकं चंद्रमसं सूर्यरश्मयो निषेधंति । अहनि हि सूर्यरश्मिभिर्निरुद्धश्छंद्रमा निप्प्रभो दृश्यते । अतो निष्प्रभं कुर्वंतीत्यर्थः ॥ आरोधने । आरुध्यत आव्रियतेऽनेनेत्यारोधनं ॥ करणे ल्युट् । सेधंति । षिदु गत्याम् । अयं केवलोऽपि निपूर्वार्थे द्रष्टव्यः । पथः । पंचम्येकवचने भस्य टेर्लोप इति टलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । यास्कपक्षे तु तृतीयार्थे व्यत्ययेन पंचमी । यह्वतीः । यह्व इति महन्नाम । अस्मादाचारार्थे सर्वप्रातिपदिकेभ्यः । म ३-१-११-३ । इति क्विप् । ततो लटः शतृ । उगितश्चेति ङीप् । आगमानुशासनस्यानित्यत्वान्नुमभावः । शतुरनुम इति नदीस्वरो व्यत्ययेन न प्रवर्तते ॥ ११ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२