मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०५, ऋक् १४

संहिता

स॒त्तो होता॑ मनु॒ष्वदा दे॒वाँ अच्छा॑ वि॒दुष्ट॑रः ।
अ॒ग्निर्ह॒व्या सु॑षूदति दे॒वो दे॒वेषु॒ मेधि॑रो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥

पदपाठः

स॒त्तः । होता॑ । म॒नु॒ष्वत् । आ । दे॒वान् । अच्छ॑ । वि॒दुःऽत॑रः ।
अ॒ग्निः । ह॒व्या । सु॒सू॒द॒ति॒ । दे॒वः । दे॒वेषु॑ । मेधि॑रः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥

सायणभाष्यम्

मनुष्वत् मनोरिवास्माकं यज्ञे सत्तो निषण्णो होता देवानामाह्वाता विदुष्टरो विद्वत्तरो देवो दानादिगुणयुक्तो देवेषु सर्वेष्विंद्रादिषु मध्ये मेधिरो मेधावी । एवंभूतोऽग्निस्तान्देवानच्छाभिमुख्येन हव्या हव्यान्यस्मदीयानि हवींषि । मर्यादायामाकारः । शास्त्रमर्यादया यथाशास्त्रं सुषूदति । प्रेरयतु । अन्यत्समानं ॥ सुषूदति । षूद क्षरणे । लेट्यडागमः । बहुलं छंदसीति शपः श्लुः । मेधिरः । मेधारथाभ्यामिरनिरचौ वक्तव्यौ । पा ५-२-१०९-३ । इति मत्वर्थीय इरन् ॥ १४ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२