मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०५, ऋक् १५

संहिता

ब्रह्मा॑ कृणोति॒ वरु॑णो गातु॒विदं॒ तमी॑महे ।
व्यू॑र्णोति हृ॒दा म॒तिं नव्यो॑ जायतामृ॒तं वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥

पदपाठः

ब्रह्मा॑ । कृ॒णो॒ति॒ । वरु॑णः । गा॒तु॒ऽविद॑म् । तम् । ई॒म॒हे॒ ।
वि । ऊ॒र्णो॒ति॒ । हृ॒दा । म॒तिम् । नव्यः॑ । जा॒य॒ता॒म् । ऋ॒तम् । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥

सायणभाष्यम्

यो वरुणोऽनिष्टस्य निवारयिता देवो ब्रह्म परिवृढं तद्रक्षणरूपं कर्म कृणोति करोति । तं तादृशं गातुविदं गातोर्मार्गस्य दुःखनिवारकस्य लंभयितारं वरुणमीमहे । अभिमतफलं याचामहे । ईमह इति याज्ञाकर्मा । तस्मै वरुणायायमस्मदीयः स्तोता हृदा हृदयेन मतिं मननीयां स्तुतिं व्यूर्णोति विवृणोति । प्रकाशयति । उच्चारयतीत्यर्थः । सोऽयं नव्यं स्तुत्यो वरुणोऽस्माकमृतं जायताम् । सत्यभूतोऽस्तु ॥ ब्रह्म । अन्येषामपि दृश्यत इति सांहितिको दीर्घः । गातुविदम् । विद्लृलाभे अंतर्भावितण्यर्थात् । क्विप् । ईमहे । ईङ् गतौ । बहुलं छंदसीति विकरणस्य लुक् । हृदा । पद्दन्नित्यादिना हृदयशब्दस्य हृदादेशः ॥ १५ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२