मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०५, ऋक् १७

संहिता

त्रि॒तः कूपेऽव॑हितो दे॒वान्ह॑वत ऊ॒तये॑ ।
तच्छु॑श्राव॒ बृह॒स्पति॑ः कृ॒ण्वन्नं॑हूर॒णादु॒रु वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥

पदपाठः

त्रि॒तः । कूपे॑ । अव॑ऽहितः । दे॒वान् । ह॒व॒ते॒ । ऊ॒तये॑ ।
तत् । शु॒श्रा॒व॒ । बृह॒स्पतिः॑ । कृ॒ण्वन् । अं॒हू॒र॒णात् । उ॒रु । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥

सायणभाष्यम्

कूपेऽवहितः पातितस्त्रित एतत्संज्ञ ऋषिरूतये रक्षणाय देवान्हवते । स्तुतिभिराकारयति । यदेतत्त्रितस्याह्वानं बृहस्पतिर्बृहतां महतां देवानां रक्षक एतत्संज्ञो देवस्तदाह्वानं शुश्राव । श्रुतवान् । किं कुर्वन् । अंहूरणादंहसः पापरूपादस्मात्कूपपातादुन्नीयोरु विस्तीर्णं शोभनं कृण्वन् कुर्वन् ॥ हवने । ह्वयतेर्लट बहुलं छंदसीति संप्रसारणम् । शब्गुणावादेशाः । ऊतये । ऊतियूतीत्यादिना क्तिन उदात्तत्वम् । बृहस्पतिः । तद्बृहतोः करपत्योः (पा ६-१-१५७) इति पारस्करादिषु पाठात् सुट् तलोपौ । उभे वनस्पत्यादिष्विति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । अंहूरणात् । अहि गतौ । इदित्त्वान्नुम् । खर्जिपिंज्यादिभ्य ऊरोलचौ (उ ४-९०) इति भाव ऊरप्रत्ययः । दुःखप्राप्तिहेतुभावा गतिरस्यास्तीति पामादिलक्षणो मत्वर्थीयो नः (पा ५-२-१००) आङ् पूर्वाद्दंतेर्वा रूपमुन्नेयं ॥ १७ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३