मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०५, ऋक् १९

संहिता

ए॒नाङ्गू॒षेण॑ व॒यमिन्द्र॑वन्तो॒ऽभि ष्या॑म वृ॒जने॒ सर्व॑वीराः ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥

पदपाठः

ए॒ना । आ॒ङ्गू॒षेण॑ । व॒यम् । इन्द्र॑ऽवन्तः । अ॒भि । स्या॒म॒ । वृ॒जने॑ । सर्व॑ऽवीराः ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

सायणभाष्यम्

एनानेनांगूषेणाघोषणयोग्येन स्तोत्रेण हेतुभूतेनेंद्रवंतोऽनुग्राहकेणेंद्रेण युक्ताः सर्ववीराः सर्वैर्वीरैः पुत्रैः पौत्रादिभिश्चोपेताः सं तो वयं वृजने संग्रामेऽभिष्याम । शत्रूनभिभवेम । तदिदमस्मदीयं वचनं मित्रादयो ममहंताम् । पूजयंतु । पालययंत्वित्यर्थः । उतशब्दो देवतासमुच्छये । अत्र यास्कः । आंगूष स्तोम आघोषः । अनेन स्तोमेन वयमिंद्रवंतः (नि ५-११) इति ॥ एना । द्वितीयाटौःस्वेनः (पा २-४-३४) इति तृतीयायामिदम एनादेशः । सुपां सुलुगिति विभक्तेराजादेशः । चित्स्वरेणांतोदात्तत्वम् । आंगूषेण । आङ् पूर्वाद्घुषेः कर्मणि घञ् । आङो ङिकारलोपाभावश्छांदसः । घोषशब्दस्य गूषभावश्च पृषोदरादित्वात् । थाथादिनोत्तरपदांतोदात्तत्वम् । स्याम । अस्तेः प्रार्थनायां लिङि श्नसोरल्लोप इत्यकारलोपः । उपसर्गप्रादुर्भ्यामस्तिर्यच्चरः (पा ८-३-८७) इति षत्वं ॥ १९ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३