मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०६, ऋक् १

संहिता

इन्द्रं॑ मि॒त्रं वरु॑णम॒ग्निमू॒तये॒ मारु॑तं॒ शर्धो॒ अदि॑तिं हवामहे ।
रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥

पदपाठः

इन्द्र॑म् । मि॒त्रम् । वरु॑णम् । अ॒ग्निम् । ऊ॒तये॑ । मारु॑तम् । शर्धः॑ । अदि॑तिम् । ह॒वा॒म॒हे॒ ।
रथ॑म् । न । दुः॒ऽगात् । व॒स॒वः॒ । सु॒ऽदा॒नवः॒ । विश्व॑स्मात् । नः॒ । अंह॑सः । निः । पि॒प॒र्त॒न॒ ॥

सायणभाष्यम्

षोडशेऽनुवाके सप्तदशसूक्तानि । ततेंद्रमिति सप्तर्चं प्रथमं सूक्तम् । अत्रानुक्रम्यते । इंद्रं मित्रं सप्त त्रिष्टुबंतमिति । अनुवर्तमानत्वात्कुत्स ऋषिः । त्रितस्तु वाऽविशिष्टत्वात्तत्रैव विकल्पितो नानुवर्तते । अंत्या त्रिष्टुप् । शिष्टास्त्रिष्टुबंत परिभाषया जगत्यः । विश्वे देवा देवतेत्युक्तम् । विनियोगो लैंगिकः ॥

ऊतये रक्षणाय वयमिंद्रादीन्मारुतं शर्धो मरुत्समूहरूपं बलं च हवामहे । आह्वयामहे । वसवो निवासयितारः सुदानवः शोभनदाना इंद्रादयो विश्वस्मात्सर्वस्मादंहसः पापान्नोऽस्मान्निष्पपर्तन । निर्गमय्य पालयत । तत्र दृष्टांतः । रथं न दुर्गात् । गंतुमशक्यान्निम्नोन्नतात्स्थानात्सारथयो यथा रथं पालयंति । तद्वत् । पिपर्तन । पृ इत्येके । लोट तप्तनप्तनथनाश्चेति तस्य तनबादेशः । पित्त्वेन ङित्त्वाभावाद्गुणः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वं ॥ १ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४