मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०६, ऋक् २

संहिता

त आ॑दित्या॒ आ ग॑ता स॒र्वता॑तये भू॒त दे॑वा वृत्र॒तूर्ये॑षु श॒म्भुवः॑ ।
रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥

पदपाठः

ते । आ॒दि॒त्याः॒ । आ । ग॒त॒ । स॒र्वऽता॑तये । भू॒त । दे॒वाः॒ । वृ॒त्र॒ऽतूर्ये॑षु । श॒म्ऽभुवः॑ ।
रथ॑म् । न । दुः॒ऽगात् । व॒स॒वः॒ । सु॒ऽदा॒नवः॒ । विश्व॑स्मात् । नः॒ । अंह॑सः । निः । पि॒प॒र्त॒न॒ ॥

सायणभाष्यम्

हे आदित्या अदितेः पुत्रा देवाः । ते यूयं सर्वतातये सर्वैवीरपुरुषै स्तताय विस्तारिताय युद्धाय । युद्धेऽस्माकं साहाय्यं कर्तुमित्यर्थः । आ गत । आगच्छत । अपि च वृत्रतूर्येषु । संग्रामनामैतत् । संग्रामेषु शंभुवः सुखस्य भावयितारो भूत । भवत ॥ गत । गमेर्लोट बहुलं छंदसीति शपो लुक् ॥ २ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४