मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०६, ऋक् ४

संहिता

नरा॒शंसं॑ वा॒जिनं॑ वा॒जय॑न्नि॒ह क्ष॒यद्वी॑रं पू॒षणं॑ सु॒म्नैरी॑महे ।
रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥

पदपाठः

नरा॒शंस॑म् । वा॒जिन॑म् । वा॒जय॑न् । इ॒ह । क्ष॒यत्ऽवी॑रम् । पू॒षण॑म् । सु॒म्नैः । ई॒म॒हे॒ ।
रथ॑म् । न । दुः॒ऽगात् । व॒स॒वः॒ । सु॒ऽदा॒नवः॒ । विश्व॑स्मात् । नः॒ । अंह॑सः । निः । पि॒प॒र्त॒न॒ ॥

सायणभाष्यम्

नराशंसं नरैः शंसनीयं वाजिनमन्नवंतमग्निं वाजयन् उपवाजयन् प्रज्वलयन्निहास्मिन्काले स्तौमीति शेषः । तथा क्षयद्वीरमतिबलिनम् । यस्मिन्सर्वे वीराः क्षीयंते । एवंरूपं पूषणं पोषकं देवं सुम्नैः सुखकरैः स्तोत्रैर्हेतुभूतैरीमहे । याचामहे । अभीष्टं प्रार्थयामहे ॥ नराशंसम् । उभे वनस्पत्यादिष्टिति युगपदुभयपदप्रकृतिस्वरत्वम् । नरशब्द ॠदोरबित्यबंत आद्युदात्तः । निपातनाद्दीर्घः । शंसशब्दो घञांत आद्युदात्तः । वाजयन् । वज व्रज गतौ । अस्माण्णिच् । क्षयद्वीरम् । क्षि क्षये । लटः शतृ । शपि प्राप्ते व्यत्ययेन शः । तस्य छंदस्युभयथेत्यार्धधातुकत्वेन ङित्त्वाभावाद्गुणायादेशौ । आदुपदेशाल्लसार्वधातुकानुदात्तत्वे । विकरणस्वरः । अतो गुण इति परपूर्वत्व एकादेश उदात्तेनेत्येकादेश उदात्तः । क्षयंतो वीरायस्मिन् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ४ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४