मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०६, ऋक् ५

संहिता

बृह॑स्पते॒ सद॒मिन्न॑ः सु॒गं कृ॑धि॒ शं योर्यत्ते॒ मनु॑र्हितं॒ तदी॑महे ।
रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥

पदपाठः

बृह॑स्पते । सद॑म् । इत् । नः॒ । सु॒ऽगम् । कृ॒धि॒ । शम् । योः । यत् । ते॒ । मनुः॑ऽहितम् । तत् । ई॒म॒हे॒ ।
रथ॑म् । न । दुः॒ऽगात् । व॒स॒वः॒ । सु॒ऽदा॒नवः॒ । विश्व॑स्मात् । नः॒ । अंह॑सः । निः । पि॒प॒र्त॒न॒ ॥

सायणभाष्यम्

बृहस्पते सदमित् सदैवा नोऽस्माकं सुगम् । सुखनामैतत् । सुखं कृधि । कुरु । अपि च ते तव स्वभूतं शं शमनीयानां रोगाणामुपशमनं योः पृथक्कर्तव्यानां भयानां यावनं पृथक्करणं मनुर्हितं मनुना ब्रह्मणा हितं त्वय्यवस्थापितम् । यद्वा । मनुष्याणामनुकूलम् । एवंविधं शमनं यावनं च यदस्ति तदीमहे । याचामहे ॥ सुगम् । सुष्ठु गम्यतेऽस्मिन्निति सुगम् । सुदुरोरधिकरण इति गमेर्डः । शं योरित्येतत्पदद्वयं यास्केनैवं व्याख्यातम् । शमनं च रोगाणां यावनं च भयानाम् (नि ४-२१) इति । मनुर्हितम् । मनेरौणादिक उसिन्प्रत्ययः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वंः ॥ ५ ॥ ।

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४