मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०६, ऋक् ६

संहिता

इन्द्रं॒ कुत्सो॑ वृत्र॒हणं॒ शची॒पतिं॑ का॒टे निबा॑ळ्ह॒ ऋषि॑रह्वदू॒तये॑ ।
रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥

पदपाठः

इन्द्र॑म् । कुत्सः॑ । वृ॒त्र॒ऽहन॑म् । शची॒३॒॑ऽपति॑म् । का॒टे । निऽबा॑ळ्हः । ऋषिः॑ । अ॒ह्व॒त् । ऊ॒तये॑ ।
रथ॑म् । न । दुः॒ऽगात् । व॒स॒वः॒ । सु॒ऽदा॒नवः॒ । विश्व॑स्मात् । नः॒ । अंह॑सः । निः । पि॒प॒र्त॒न॒ ॥

सायणभाष्यम्

काट इति कूपनाम । तस्मिन्नि बाळ्हो निपातितः कुत्स ऋषिरूतये रक्षणायेंद्रमह्वत् । आह्वयति स्म । कीदृशम् । वृत्रहणं वृत्राणां शत्रूणां हंतारम् । शचीपतिम् । शचीति कर्मनाम । सर्वेषां कर्मणां पालयितारम् । यद्वा । शच्या देव्या भर्तारं ॥ शचीपतिम् । वनस्पत्यादिषु पाठादुभयपदप्रकृतिस्वरत्वम् । शचीशब्दः शार्ङ्गरवादिङीनंत आद्युदात्तः । निबाळ्हः । बाहृ प्रयत्ने । नीत्युपसर्गवशात्पतने वर्तते । निष्ठाया मनित्यमागमशासनमितीडभावः । ढत्वधत्वादीनि । यद्वा । क्षुब्धस्वांतेत्यादौ (पा ७-२-१८) भृशार्थ इडभावो निपात्यते । आत्र च वाढशब्दो भृशत्वोपेते पतने सामार्थ्याद्वर्तते । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । आह्वन् । लिपिसिच्विह्वश्व (पा ३-१-५३) इति लुङि च्लेरङादेशः । अतो लोप इट चेत्याकारलोपः ॥ ६ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४