मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०७, ऋक् २

संहिता

उप॑ नो दे॒वा अव॒सा ग॑म॒न्त्वङ्गि॑रसां॒ साम॑भिः स्तू॒यमा॑नाः ।
इन्द्र॑ इन्द्रि॒यैर्म॒रुतो॑ म॒रुद्भि॑रादि॒त्यैर्नो॒ अदि॑ति॒ः शर्म॑ यंसत् ॥

पदपाठः

उप॑ । नः॒ । दे॒वाः । अव॑सा । आ । ग॒म॒न्तु॒ । अङ्गि॑रसाम् । साम॑ऽभिः । स्तू॒यमा॑नाः ।
इन्द्रः॑ । इ॒न्द्रि॒यैः । म॒रुतः॑ । म॒रुत्ऽभिः॑ । आ॒दि॒त्यैः । नः॒ । अदि॑तिः । शर्म॑ । यं॒स॒त् ॥

सायणभाष्यम्

देवा दानादिगुणयुक्ताः सर्वे देवा अवसा रक्षणेनास्मभ्यं दातव्येनान्नेन वा युक्ता नोऽस्मान् स्तोत ॄनुपागमंतु । उपागच्छंतु । प्राप्नुवंतु । कथंभूताः । अंगिरसामेतत्संज्ञकानामृषीणां संबंधिभिः सामभिः प्रगीतैर्मंत्रैः स्तूयमानाः । अपि चेंद्र इंद्रियैः । धननामैतत् । स्वसंबंधिभिरस्मभ्यं दातव्यैर्धनैः सहास्मानागच्छतु । तथा मरुतः सप्तगणरूपा एकोनपंचाशत्संख्याका ईदृङ् चान्यादृङ् चेत्येवमाजिनामानो देवा मरुद्भिः स्वावयवभूतैः प्राणापानादिरूपेण वर्तमानैर्वायुभिः सहास्मानागच्छंतु । तथादितिरखंडनीयादीना वा देवमातादित्यैः स्विकीयैः पुत्रैः सह नोऽस्मभ्यं शर्म सुखं यंसत् । यच्छतु ॥ गमंतु । लोट बहुलं छंदसीति शपो लुक् । छंदस्युभयथेति झेरार्धधातुकत्वेन ङित्त्वाभावाद्गमहनेत्यादिनोपधालोपाभावः । यंसत् । यम उपरमे । लेट्यडागमः । सिब्बहुलं लेटीति सिप् ॥ २ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५